पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७१
पञ्चमः सर्गः ।


स्यावाचकस्तथापि पर्वतवर्णनप्रकरणोक्तत्वात्पाषाणनिचयः शृङ्गवाची भवितुमर्हति । यथा--'कूटोऽस्त्री शिखरं शृङ्गम्' इति कूदशब्दः समूहापरपर्यायः । अत एव लक्षणा- श्रयणीया । अतएवावाच्यवचनं न दोषः ।।

मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः।
दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पव[१]ना भुवः॥५॥

  मणीति ॥ पुनः। मणिमयूखचया अंशुकानीव पटकादीनीव तैर्भासुराः । सुरवधूभिः परिभुक्ता लता गृहा इव यासु तास्तथोक्ताः । उच्चानि शिलान्तराणि गोपुराणीव शिलान्तराणि शिलामध्यानि पुरद्वाराणि यासु ताः । उदितान्यूर्जितानि पुष्पाणां वनानि यासु ताः । अतएव पुर इव नगराणीव स्थिताः। भुवो दधतम् ॥

अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा ।
उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥ ६ ॥

  अविरतेति ॥ पुनश्च । अविरतमविच्छिन्नमुज्झितवारयः । अवृष्टिमन्त इत्यर्थः । अतएव विपाण्डवश्च तैरविरतोज्झितवारिविपाण्डुभिः । अत एव हिमवत्पक्षत्वं संभवतीति भावः। अचिरद्युतितेजसा विरहितैर्विद्युत्तेजोरहितै: । आरतनिःस्वनैः प्रशान्तगर्जितैश्च । अन्यथा पक्षत्वहानिः स्यादिति भावः । पृथुनितम्बविलम्बिभिर्महाकटकसङ्गिभिः । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । अम्बुदैरुदितपक्षं संजातपक्षमिव स्थितम् । प्राक्छिन्नपक्षस्यापि हिमाद्रेर्धवलाम्बुदसंबन्धात्पुनःपक्षोत्थानमुत्प्रेक्ष्यते ।

दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः॥७॥

  दधतमिति ॥ पुनश्च । आकरः खनिरेषामस्तीति योनित्वेमेत्याकरिभिराकरजैः। 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । करिभिर्गजैः कर्तृभिः क्षतै रुग्णैः समवतारेषु तीर्थेषु समैरविषमैरसमैसरदृशैः। अनुपमैरित्यर्थः । तटैरुपलक्षितास्तथा महिताम्भसः श्लाघ्योदका अतएव विविधेभ्यः कामेभ्योऽवगाहनाद्युपभोगेभ्यो हिता अनुकूलाः । 'चतुर्थी तदर्थ--' इत्यादिना समासः। स्फुटानि विकसितानि सरोजवनानि यासु ताः । जवना वेगवतीः । “जुचङ्क्रम्य-'इत्यादिना युचू । नदीर्दधतम् । यमकंवृत्त्यनुप्रासभेद- त्वात्स्वयमेवालंकारः । अर्थालंकारस्त्वभ्युच्चयः। तस्यातिदुष्करत्वाद्रसपोषोऽपि नाद्रियते । तदुक्तम्-'प्रायशो यमके चित्रे रसवृद्धिर्न मृग्यते' ॥

नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् ।
विहि[२]तसांध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु ॥ ८ ॥

  नवेति ॥ पुनश्च। नवानि विनिद्राणि विकसितानि च यानि जपाकुसुमानि ताम्रपु-


  1. 'लता' इति पाठः
  2. 'निहितः' इति पाठः