ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः । |
ससुरेति ॥ अनेका विचित्रा मणिप्रभा येषां तैस्तथोक्तैः । हिमेन पाण्डुभिः शिखरैः कृत्वा ससुरचापं सेन्द्रचापम् । अपपया निर्जलोऽतएव विशदश्च तमपपयोविशदम् । अविचलं दैवान्निश्चलम् । अतः शिखरशङ्कास्याभूदित्यर्थः । किंतु ध्वनितेन गजितेन सूचितं ज्ञापितमम्बुमुचां चयमविरतमुपबिभ्रतम् । अत्र किल कल्पितसादृश्याच्छिखर- मेघसंदेहो मेघनिश्चयान्तः संदेहालंकारः ॥
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । |
विकचेति ॥ पुनश्च । विकचवारिरुहम्। नित्यविकसितारविन्दमित्यर्थः । वृत्तिसामर्थ्यात्। कलहंसगणैः सह वर्तत इति सकलहंसगणम् । 'कादम्ब: कलहंसः स्यात्' इत्यमरः । यद्वा । सकलाः सर्वे हंसगणा यस्मिम्स्तत्तथोक्तम् । शुचि नित्यनिर्मलं मानसं मानसाख्यं सरो दधतम् । किंच। कृतेर्ष्यया । कुतश्चिन्निमित्तात्कुपितयेत्यर्थः । अगात्मजया पार्वत्या सकलहं सविवादम्। सगणं सप्रमथम्। 'गणाः प्रथमसंख्यौघाः' इति वैजयन्ती । शुचिमानसमविद्याविनिर्मुक्तचित्तं शिवं च दधतम् । एतेन सकलशैलवै- लक्षण्यमस्योक्तम् ॥
ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना। |
ग्रहेति ।। दिवमभितो दिवोऽभिमुखम्। 'अभितःपरितः-' इत्यादिना द्वितीया । ग्रहाश्चन्द्रादयो विमानानि देवयानानि च । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । तेषां गणाञ्ज्वलयता प्रदीपयता । 'मितां ह्रस्वः' इति ह्रस्वः । ओषधिजेन तृणविशेषजन्येन कृशानुना वह्निना कृत्वानुक्षपंप्रतिक्षपम् । वीप्सायामव्ययीभावः । उमापतिसेविनः प्रमथादीन् । 'गतिबुद्धि-' इत्यादिना द्विकर्मत्वम्। त्रयाणां पुराणां समाहारस्त्रिपुरम् । 'तद्धितार्थ-'इत्यादिना समासः ।'पात्रादिभ्यः प्रतिषेधो वक्तव्यः'इति स्त्रीलिङ्गप्रतिषेधः। तस्य दाहं त्रिपुरदाहं मुहुरनुस्मरयन्तम् । नंनु 'अधीगर्थ–' इत्यादिना दाहमित्यत्र षष्ठी किं न स्यात् । तस्याः शेषार्थे विधानाच्छेषत्वस्याविवक्षितत्वात्। अत्र 'कविसंमतसादृश्यात्स्मृतिः' इति स्मरणालंकारः ॥
विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः ।। |
विततेति ॥ विततशीकरराशिभिर्विस्तृतशीकरपुञ्जैरुच्छूितैरुत्पतितैः । कुतः । उप-
- ↑ ।