लरोधेन विवर्तिभिरम्बुभिर्हेतुभिर्धृतसितव्यजनामिव गृहीतामलचामरामिव स्थिता-
मित्युत्प्रेक्षा । उन्नतसानुषु समुद्धतां वहन्तीं जाह्नवीं गङ्गां दधतम् ॥
अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः। |
अनुचरेणेति ॥ अथोऽनन्तरम् । 'मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ' इत्यमरः । धनाधिपतेरनुचरेण यक्षेण नगविलोकनेन विस्मितमानसः सोऽर्जुनः । आदरात्प्रियं वचनं जगदे गदितः । गदतेर्गत्यर्थस्य दुहादित्वात्प्रधाने कर्मणि लिट्। अपृष्टपरिभाषण- दोषं परिहरति-मुखरतेति । मुखरता वाचालत्वम् । अपृष्टपरिभाषित्वमिति यावत् । अवसरे श्रोतुराकाङ्क्षासमये विराजते हि । आकाङ्क्षितमपृष्टोऽपि ब्रूयादिति भावः ।।
अलमेष विलोकितः प्रजानां सहसा सं[१]हतिमंहसां विहन्तुम् । |
अलमिति ॥ हिमेन गौरैः शुभैः शिरोभिः शिखरैर्घनवर्त्म खं सहस्रधा कुर्वन्विपाट- यन्निवेत्युत्प्रेक्षा । एषोऽचलाधिपो हिमवान्विलोकितो दृष्टमात्र एव प्रजानामंहसां संहतिं पापसंघातं सहसा विहन्तुमलं समर्थः । 'पर्याप्तिवचनेष्वलमर्थेषु' इति तुमुन् । औपच्छन्दसिकं वृत्तम्-- पर्यन्तेर्यौ तथैव शेषं चौपच्छन्दसिकं सुधीभिरुक्तम्' इति स्मरणात् ॥
इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । |
इहेति ॥ इहास्मिन्पर्वते । सुतरं न भवतीत्यसुतरम् । दुस्तरमित्यर्थः । तरतेः खल्प- त्ययः । अन्तरं मध्यभागम् । पुरुषे त्वन्तरं तत्त्वम् । दुरधिगमैर्दुरारोहैरन्यत्र दुर्ग्रहैराग- मैर्वृक्षैरन्यत्र पुराणादिभिः। 'पुराणेऽप्यागमो वृक्ष' इति रुद्रट:। किंचिदेव सततं वर्णयन्ति । न तु कदाचित्प्रत्यक्षेणापि निःशेषं शातुमशक्यत्वादिति भावः । किंत्वतिविपिनमतिगहनं दिग्व्यापिनमुभयत्रापि समम् । अमुं गिरिं परं पुरुषं परमात्मानमिव परं केवलम् । 'परमव्ययमिच्छन्ति केवले' इति विश्वः। पद्मयोनिर्ब्रह्मैव वेद । नान्य इत्यर्थः । 'विदो लटो वा' इति णलादेशः। अत्रोपमायमकयोः संसृष्टिः। क्षमावृत्तम्---- 'तुरगरसयतिर्नौ भरौ गः क्षमा' ॥
रुचिरपल्लवपुष्पलतागृ[२]हैरुपलसज्जलजैर्जलराशिभिः। |
रुचिरपल्लवेति ॥ अयं गिरिः । रुचिराणि पल्लवानि पुष्पाणि च येषां ते तथाभूता