पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
पञ्चमः सर्गः ।


लतागृहा येषु तैस्तथोक्तैरुपलसज्जलजैः शोभितकमलैर्जलराशिभिः सरोभिः करणैः उपकान्तं कान्तसमीपे धृतिमतीर्धैर्यवतीरपि समीपस्थानपि प्रियान्न गणयन्तीः। मानि- नीरित्यर्थः। स्त्रियः संततमुत्सुकतां नयति । तासां मानग्रंथिं शिथिलयतीत्यर्थः । अथवा । उपकान्तं धृतिमतीस्तुष्टिमतीरपि सुरततृप्ता अपि पुनरप्युत्सुकतां नयतीत्यर्थः। उभयत्राप्युद्दीपकत्वातिशयोक्तिः । वृत्तमुक्तम् ॥

सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः ।
अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती॥२०॥

  सुलभैरिति । नयवता नीतिमतायवता भाग्यवता च सदा सुलभैः । नान्यैरित्यर्थः। 'अयः शुभावहो विधिः' इत्यमरः । निधीनां महापद्मादीनाम् । 'अस्त्री पद्मो महापद्मः शङ्खो मकरकच्छपौ। मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥' इत्यमरः । गुह्यकानां चाधिपं कुबेरं रमयन्तीति तथोक्तैः । 'कर्मण्यण्' । परमैरुत्कृष्टैर्धनैः करणैः अमुना क्षितिभृता हिमाद्रिणातिभृता पूर्णा सती जगती मही जगती स्वर्गपाताललोकौ समतीत्यातिक्रम्य भाति । अमानुषैरपि दुर्लभाः संपदोऽत्र संभवन्तीति भावः । अत्र धनातिभृतेति पदार्थस्य विशेषणगत्या जगदतिक्रमणहेतुत्वोक्त्या काव्यलिङ्गम् । तस्य यमकेन संसृष्टिः। प्रमिताक्षरावृत्तम्-'प्रमिताक्षरा सजससैरुदिता' इति लक्षणात् ॥

अखिलमिदममुष्य गौरीगुरोस्त्रिभुवनमपि नैति मन्ये तुलाम् ।
अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ॥२१॥

  अखिलमिति ॥ अमुष्य गौरीगुरोर्हिमवत इदमखिलम् । त्रयाणां भुवनानां समाहार- स्त्रिभुवनमपि । 'तद्धितार्थ-'इत्यादिना समासः । पात्रादित्वात्स्त्रीत्वप्रतिषेधः । तुलां साम्यं नैतीति मन्ये । यद्यतो जनैरविदितविभवोऽज्ञातमहिमा भवानीपतिः शिवः सदैनं गिरिमधिवसति । अस्मिन्वसतीत्यर्थः । 'उपान्वध्याङ्वसः' इति कर्मत्वम् । अतोऽयं धर्मक्षेत्रमिति भावः। प्रभावृत्तम्-'स्वरशरविरतिनौ सरौप्रभा' इति लक्षणात्।

बीतजन्मजरसं परं शुचि ब्रह्मणः पदमुपैतुमिच्छताम् ।
आगमादिव तमोपहादितः संभवन्ति मतयो भवच्छिदः ॥ २२ ॥

  वीतेति ॥ वीते निवृत्ते जन्मजरसौ यस्य तद्वीतजन्मजरसम् । 'जराया जरसन्यतर- स्याम्' इति जरसादेशः । अत्र तदन्तविधेरिष्टत्वात्परत्वेन स्यादेशबाधकत्वाच्च। तथाहि- 'टाङसिङसामिनात्स्या इति स्यादेशबाधनात्। परत्वाज्जरसादेशं बभाषे भाष्यकृत्स्वयम्॥ सूत्रकारमते यत्तु ज्ञापकात्परबाधनम् । भवेत्तदपिटाङस्योर्न पुनर्ङसि संभवि॥ मतद्वयेऽपि तत्तुल्यं ङसि यत्पूर्वबाधनम्।परत्वाज्जरसादेशस्तत्स्यात्स्यादेशबाधनात् ॥ ज्ञापकं यच्च टाङस्योर्यावादेशाविनादिति । ईकारदीर्घयोस्तत्र वैयर्थ्यं तत्तु तौ विना ॥ एत्वे सवर्णे दीर्धे च रूपसिद्धिर्भवेद्यतः । व्यर्थसूत्राक्षरत्यागाद्भङ्क्त्वैतज्ज्ञापकं फणी ॥ स्वातत्र्याज्जरसादेशं जगौ पूर्वस्य बाधनात् । समर्थनप्रपञ्चस्तु भाष्यकैयटयोः स्फुटः ॥'