पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
किरातार्जुनीये


एवं च यदत्र जरस इति केषांचित्पाठान्तरकल्पनं तदज्ञानविजृम्भितमेव । ब्रह्मणः परमात्मनः संबन्धि परमुत्कृष्टं शुचि निष्कलङ्कम् । पद्यत इति पदं स्थानं तादात्म्यलक्षणम्। मुक्तिमित्यर्थः। उपैतुं प्राप्तुमिच्छतां मुमुक्षूणामागमाच्छास्त्रादिव । तमोऽपहन्तीति तमोपहादविद्यानिवर्तकात् । 'अपे क्लेशतमसोः' इति डप्रत्ययः। इतोऽस्माद्गिरेः । भवं छिन्दन्तीति भवच्छिदः संसारनिवर्तकाः। 'सत्सूद्विष-' इत्यादिना क्विप् । मतयस्तत्त्व- ज्ञानानि संभवन्त्युत्पद्यन्ते । क्षेत्रविशेषस्यापि ज्ञानोपायत्वादित्याशयः । न केवलमियं भोगभूमिः किंतु मुक्तिक्षेत्रमपीति तात्पर्यार्थः । रथोद्धतावृत्तम् । तल्लक्षणम्- 'रान्नराविह रथोद्धता लगौ' इति ॥

दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः ।
पीडामाजः कुसुमचिताःसाशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥२३॥

  दिव्येति ॥ अस्मिन्गिरौ ।चरणलाक्षारागैः सह वर्तन्ते तास्तथोक्ताः । धेनुकपुरुषा- यितादिबन्धेषु स्त्रियाः पादतलस्याधः स्पर्शात्तद्रागाङ्किता इत्यर्थः । निपतिता व्यानतकरणे स्त्रीणामधोमुखत्वाद्भ्रष्टाः पुष्पापीडाः कुसुमशेखरा यासु तास्तथोक्ताः । 'शिखा स्वापीडशेखरौ' इत्यमरः । पीडाभाजो विमर्दभाजः । भङ्गिमत्य इत्यर्थः । भ्रमरप्रेङ्खो- लितादौ सवतः कटीपरिभ्रमणसंभवादिति भावः । कुसुमौश्चिताः कुसुमव्याप्ताः । इभ- मार्जारादिकरणेषु स्तनभुजाद्ययवानां शय्यातलस्थायित्वान्मार्दवाय कुसुमाचिता इत्यर्थः । दिव्यस्त्रीणां संबन्धिन्यः। शेरत आस्विति शय्यास्तल्पानि । 'संज्ञायां समजनिषद--' इत्यादिना क्यप् । रागायाते रागोद्रेके सति यः साशंसः सतृष्णः सुरतविशेषस्तम्। जातावेकवचनम् । सुरतविशेषानित्यर्थः । शंसन्ति सूचयन्ति । विवृण्वन्तीत्यर्थः । अत्र लाक्षारागादिपदार्थानां सुरतविशेषशंसनं प्रति विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलंकारो यमकेन संसृज्यते । जलधरमालावृत्तम्---'म्भौ स्मौ चेत्स्याज्जल- धरमाला ख्याता' इति लक्षणात् । धेनुकादिबन्धलक्षणं तु रतिरहस्ये-~~-'न्यस्तहस्तयु- गला निजे पदे योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदु- न्नते प्रिय ॥ स्वेच्छया भ्रमति वल्लभेऽपि या योषिदाचरति वल्लभायितम् । व्यानतं रत- मिदं यदि प्रिया स्यादधोमुखचतुष्पदाकृतिः ॥ तत्कटिं समधिरुह्य वल्लभः स्याध्दृषादि- पशुसंस्थितिस्थितः।चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका भ्रामरं न जघने समुद्गते ॥ सर्वतः कटिपरिभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमूलितम् । भूगतस्तनयुगास्यमस्तकामुन्नतस्फिज- मधोमुखीं स्त्रियम् । कामति स्वकरकृष्टमेहने वल्लभे करिरतं तदुच्यते ॥ 'प्रसारिते पाणिपादे शय्यास्पृशि मुखोरसि । उन्नतायाः स्त्रियाः कट्यां मार्जारकरणं विदुः॥' इति ग्रन्थान्तरे । 'कान्तोत्पीडा म्भौ स्मौ' इति वृत्तम् ॥

गुणसंपदा समधिगम्य परं महिमानमत्र महिते ज[१]गताम् ।
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः॥२४॥


  1. 'जगतः' इति पाठः