पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
किरातार्जुनीये


घोषैर्नदैः प्रवाहैर्वृतममुम् । अमुष्मिन्गिरावित्यर्थः । 'उपान्वध्याङ्वसः' इति कर्मत्वम् । अवतोऽधोलोकरक्षकस्य फणवतो नागराजस्य मतेष्टा । 'मतिबुद्धि-'इत्यादिना वर्तमाने क्तः । तद्योगात्षष्ठी । रसेन स्वादेन परोत्कृष्टा परास्तवसुधा त्यक्तभूलोका सुधामृतं चिरमधिवसति। अतोऽन्यत्र भूमण्डले कुत्रापि सुधा नास्तीत्यर्थः । मेरुप्रतिभटोऽयं गिरिरिति भावः । अत्र प्रस्तुतविशेषणसामर्थ्यादप्रस्तुतमेरुप्रतीतेः समासोक्तिरलंकारः । स च यमकेन संसृज्यते । जलोद्धतगतिवृत्तम्-'रसैर्जसजसा जलोद्धतगतिः' इति लक्षणात् ॥

श्रीमल्लताभवनमोषधयः प्रदीपाः शय्या न[१]वानि हरिचन्दनपल्लवानि ।
अस्मिन् रतिश्रमनु[२]दश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥२८॥

  श्रीमदिति ॥ अस्मिन्नद्रौ श्रीमत्समृद्धिमल्लता एव भवनम् । ओषधयस्तृणज्योतीष्येव प्रदीपाः । नवानि हरिचन्दनपल्लवानि सुरतरुकिसलयान्येव शय्याः । 'हरि- चन्दनमाख्यातं गोशीर्षे सुरपादपे' इति विश्वः।रतिश्रमनुदः सुरतश्रमहारिणः सरोजवाताश्च । सुरसुन्दरीभ्यः । क्रियाग्रहणाच्चतुर्थी । दिवो दिवम् । 'अधीगर्थ-'इत्यादिना कर्मणि षष्ठी । स्मर्तुं न दिशन्ति । विस्मारयन्तीत्यर्थः । स्वर्गादप्यतिरिच्यतेऽसाविति भावः । अत्र पूर्वार्धे रूपकत्रयं स्फुटमेव ॥

ईशार्थमम्भसि चिराय तपश्चरन्त्यायादोविलङ्घनविलोलविलोचनायाः।
आलम्बताग्रकर[३]मत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ २९॥

  ईशार्थमिति । ईशायेतीशार्थं यथा तथेति क्रियाविशेषणम् । 'अर्थेन सह नित्यस- मासः सर्वलिङ्गता च वक्तव्या' । चिराय चिरमम्भसि तपश्चरन्त्या अतएव यादोविलङ्घन- विलोलविलोचनाया जलजन्तुविघट्टितचकितेक्षणायाः । तपसोऽप्यधिकं दृष्ट्यैव विलोभयन्त्येति भावः । 'यादांसि जलजन्तवः' इत्यमरः । भवान्या भवपत्न्या: । प्रयोगकालापेक्षोऽयं निर्देशः । 'इन्द्रवरुणभव-'इत्यादिना ङीप् । आनुगागमश्च । करैकदेशस्यापि करत्वादग्रश्चासौ करंश्चेति समानाधिकरणे समासः। अतएव वामनः-- 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्मेदाभेदौ' इति । तमग्रकरं भवः शिवः श्च्योतन्निदाघस- लिलाङ्गुलिना स्त्रवत्स्वेदाङ्गुलिनेति सात्त्विकोदयोक्तिः । करेणात्र गिरावालम्बत गृही-


  1. 'मृदूनि' इति पाठ:
  2. 'जितश्च' इति पाठः
  3. 'भुजम्' इति पाठ: