पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/९

एतत् पृष्ठम् परिष्कृतम् अस्ति
किरातार्जुनीये


विघ्नपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनत्वात् 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याद्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च वनेचरस्य युधिष्ठिरप्राप्तिरूपं वस्तु निर्दिशन्कथामुपक्षिपति-

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥१॥

श्रिय इति ॥ आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तम्- 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा।'इति । कुरूणां निवासाः कुरवो जनपदाः।'तस्य निवासः'इत्यण्प्रत्ययः । जनपदे लुप् । तेषामधिपस्य दुर्योधनस्य संबन्धिनीम् । शेषे षष्ठी । श्रियो राज्यलक्ष्म्याः । 'कर्तृकर्मणोः कृति' इति कर्भणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् । प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात्संपद् इति भावः । 'करणाधिकरणयोश्च' इति करणे ल्युट् । 'टिद्ढाणञ्-' इत्यादिना ङीप । प्रजासु जनेषु विषये । 'प्रजा स्यात्संततौ जने'इत्यमरः । वृत्तिं व्यवहारं वेदितुं ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान् । वर्ण: प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। तदुक्तम्-'स्मरणं कीर्तनं केलि: प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्॥' एतदष्टविधमैथुनाभावः प्रशस्तिः ।'वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी । ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः। 'भेदीः किरातशबरपुलिन्द: म्लेच्छजातयः'इत्यमरः । चरेष्टः' इति टप्रत्ययः ।'तत्पुरुषे कृति बहुलम्' इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः । परवृत्तान्तशानवानित्यर्थः । 'अर्शआदिभ्योऽच्' इत्यच्प्रत्ययः ।अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते ।उभयत्रापि 'पीता गावः','भुक्ता ब्राह्मणाः','विभक्ता भ्रातरः' इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः। सकर्मकेभ्यस्तस्य विधानाभावात् ।अतएव भाष्यकार:-'अकारो मत्वर्थीयः। विभक्तमेषामस्तीति विभक्ताः । पीतमेषामस्तीति पीताः' इति सर्वत्र । अथवोत्तरपद- लोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः पीता इति । अत्र लोपशब्दार्थमाह कैयट:--'गस्यार्थस्याप्रयोग एव लोपोऽभिमतः'। 'विभक्ता भ्रातरः' इत्यत्र च धनस्य यद्विभक्तत्वं तद्भ्रातृषूपचरितम् । 'पीतोदका गावः' इत्यंभाप्युदकस्य पीतत्वं गोष्वारोप्यते' इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते। एतेन 'वनाय पीतप्रतिर्बद्धवत्साम्', 'पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु' पवमादयो व्याख्याताः । अथवा विदितो विदितवान् । सकर्मकादप्यविवक्षिते कर्मणि कतरि क्तः। यथा 'आशितः कर्ता' इत्यादौ । यथाहु:-'धातोरर्थान्तरे वृत्तेर्धात्वर्थ- नोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥' इति । द्वैतवने द्वैताख्ये तपोवने । यद्वा द्वे इते गते यस्मात्तद्द्वीतम् । द्वीतमेव द्वैतम् । तच्च तद्वनं च तस्मिन् । .