पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
किरातार्जुनीये


  इतीति ।। प्रियार्हे राजराजभृत्य इति पूर्वोक्तम् । हितं प्रियं वचनमिति शेषः। उक्त्वा सपदि स्वं स्वकीयं धाम स्थानं गतवति सति । पृथासुतोऽर्जुनः सोत्कण्ठं सौत्सुक्यं किमपि प्रदध्यौ चिन्तयामास । तथाहि । सद्वियोगः सुजनवियोगो भृशमरतिं व्यथां संधत्ते। करोतीत्यर्थः । अर्थान्तरन्यासः ॥

तमनतिशयनीयं सर्वतः सारयोगादविरहितमनेकेनाङ्कभाजा फलेन ।
अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥ ५२ ॥

इति श्रीभारविकृतौ महाकाव्ये किरातार्जुनीये पञ्चमः सर्गः।

  तमिति ॥ अकृशाः पूर्णा लक्ष्म्यः शोभा यस्य सोऽकृशलक्ष्मीरिति बहुवचनाश्रितो बहुव्रीहिः । एवं च 'उरःप्रभृतिभ्यः-' इति कप्प्रत्ययानवकाशः। तत्र लक्ष्मीशब्दस्यैक- वचनान्तस्यैव पाठात् । नापि 'नधृतश्च' इत्यस्यावकाशः । उरःप्रभृतिपाठसामर्थ्या- देवशैषिकस्तु वैभाषिक इत्यविरोधः। सोऽर्जुनः सर्वतः सर्वत्र सारयोगादुत्कृष्टबलप्रयोगात् । 'सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु' इत्युभयत्राप्यमरः। अनतिशयनी- यमनतिक्रमणीयमनेकेन बहुनाङ्कभाजा समीपं गतेन । शीघ्रभाविनेति यावत् । फलेन कार्यसिद्ध्याविरहितमशून्यम् । कार्यसिद्धेरवश्यं साधकमित्यर्थः । अकृशमतनुं चेतसाशंसितं प्रातुमिष्टं शैलमिन्द्रकीलं स्वमात्मीयम् । पुरुषस्य कारः कर्म तं पुरुषकारमु- क्तविशेषणविशिष्टं पौरुषमिवाभ्याससाद प्राप्तवान् । मालिनीवृत्तम् ॥   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां पञ्चमः सर्गः समाप्तः॥


षष्ठः सर्गः।


रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः॥ १ ॥

  रुचिराकृतिरिति ॥ अथो आसादनानन्तरं रुचिराकृतिः सौम्यविग्रहो धृतसत्पथो- ऽवलम्बितसन्मार्गः । आकारानुरूपगुणवानित्यर्थः। 'यत्राकृतिस्तत्र गुणा वसन्ति' इति सामुद्रिकाः। उपमानेऽपि समानमेतत्।स पुरुहूतसुतोऽर्जुनः। कनकस्य विकाराः सानवो यस्य तं कनकसानुम् । गरुडसावर्ण्यार्थं विशेषणमेतत् । 'समुदाये विकारषष्ठ्योश्च' इति वहुव्रीहिरुत्तरपदलोपश्च ।तमिन्द्रकीलम् । परमः पुमान्विष्णुः पततां पक्षिणां पति गरुडमिव । त्रिभिः पथिभिर्गच्छतीति त्रिपथगा भागीरथी । 'अन्येष्वपि दृश्यते'