पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
[ सर्गः ३
कुमारसंभवे

हतसैन्यो निवर्तते ॥' इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु संसक्ता अन्योन्यसंसृष्टा नमेरूणां सुरपुंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् , 'आस्पदं प्रतिष्टायाम्' (पा. ६।१।१४६) इति निपातः । विवेश ॥ ३ ॥

 सदेवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
 आसीनमासन्नशरीरपातस्त्रियम्बकं संयमिनं ददर्श ॥४४॥

 स इति ॥ आसन्नशरीरपात आसन्नमृत्युः स कामः शार्दूलचर्मणा व्यवधानवत्याम् , व्याघ्रचर्मास्तृतायामित्यर्थः । 'मोक्षश्रीार्ष्याघ्रचर्मणि' इति प्राशस्त्यादिति भावः । देवदारुद्रुमवेदिकायामासीनमुपविष्टं संयमिनं समाधिनिष्ठं त्रियम्बकं त्रिनेत्रं ददर्श। केचित्साहसिकाः 'त्रिलोचनम्' इति पेठुः । 'त्र्यम्बकम्' इत्युक्ते पादपूरणव्यत्यासात् 'त्रियम्बकम्' इति पादपूरणाथोऽयमियङादेशश्छान्दसः, महाकविप्रयोगादभियुक्तैरङ्गीकृतः ॥ ४४ ॥

 तमेव देवं षड्भिः श्लोकैर्वर्णयति-

 पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ।
 उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥ ४५ ॥

 पर्यङ्केति ॥ पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोत्तरार्धमृजरायतश्च ऋज्वायतस्तं, संनमितावुभावसौ यस्य तं तथोक्तम् । 'वृत्तिविषये उभशब्दस्थान उभयशब्दप्रयोगः' इत्युक्तं कैयटेन । उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य संनिवेशः संस्थानं तस्मादङ्कमध्ये प्रफुल्लं राजीवं पङ्कजं यस्य तमिव स्थितम् । वीरासने वसिष्टः-'एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥' इति ।

तथा योगसारे-'उत्तानिते करतले करमुत्तानितं परम् ।

मादायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ॥' इति ॥ ४५ ॥

 भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
 कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमती दधानम्॥४६॥

 भुजंगमेति ॥ भुजंगमेनोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् ।


पाठा०--१ त्रिलोचनम्. २ उद्बद्धः; आबद्ध. ३ कर्णावतंस. ४ मृगत्वचम्,