पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
[ सर्गः ३
कुमारसंभवे

 मन इति ॥ नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः । 'प्रणिधानं समाधानं समाधिश्च समाश्रयः' इति हलायुधः । मनो हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः-'यतो निर्याति विषयान् यस्मिंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ॥' इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः यं न क्षरतीत्यक्षरमविनाशिनं विदुर्विदन्ति । 'विदो लटो वा' (पा. ३।४।८३) इति झेर्जुस् । तमात्मानमात्मनि स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् , स्वाति- रेकेण परमात्मनोऽभावादिति भावः ॥ ५० ॥

 स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
 नालक्षयत्साध्वससनहस्तः त्रस्तं शरं चापमपि स्वहस्तात् ॥५१॥

 स्मरेति ॥ स्मरः कामस्तथाभूतं पूर्वोक्तरूपं मनसाप्यस्यमयुग्मनेत्रं विषमाक्षमदुरात्पश्यन् । साध्वसेन सन्नहस्तो विश्लथपाणिः सन् । स्वहस्तात्स्रस्तं शरं चापमपि चापं च नालक्षयन्न विवेद, भीतो मुद्यतीति भावः ॥ ५१ ॥

 निर्वाणभूयिष्ठमथास्य वीर्य संधुक्षयन्तीव वपुर्गुणेन ।
 अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या॥५२॥

 निर्वाणेति ॥ अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् , नष्टप्रायमित्यर्थः । अस्य स्मरस्य वीर्यं बलं वपुर्गुणेन सौन्दर्येण संधुक्षयन्तीव पुनरुज्जीवयन्तीव स्थिता, वनदेवताभ्यां सखीभूताभ्यामनुप्रयाताऽनुगता स्थावरराजकन्या पार्वत्यदृश्यत दृष्टा ॥ ५२ ॥

 तामेवाह चतुर्भिः-

 अशोकनिर्भर्हितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
 मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥५३॥

 अशोकेति ॥ अशोकपुष्पेण निसितास्तिरस्कृताः पारागा येन तत्तथोकम् । आकृष्टहेमद्युतीन्याहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यस्मिंस्तत्तथोक्तम् । मुक्ताकलापीकृतानि सिन्दुवाराणि निर्गुण्डीकुसुमानि यस्मिंस्तत् । 'सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि' इत्यमरः । वसन्तपुष्पाण्येवाभरणं वहन्ती॥५३॥


पाठा०-१ सिन्धुवार.