पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५८-६४]
६९
हरबद्धलक्ष्येण कामेन शरसंधानम्

 तस्या इति ॥ तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वहस्तेन लून उपचितः पल्लवभङ्गभिन्नः किसलयशकलमिश्रः शिशिरात्ययस्य वसन्तस्य संबन्धी पुष्पोच्चयः पुष्पप्रकरः । 'हस्तादाने चेरस्तेये' (पा. ३।३।४०) इति घञ्विषयत्वास्कवीनामयं प्रामादिकः प्रयोग इति वल्लभः। त्र्यम्बकपादमूले प्रणिपातपूर्वं नमस्कारपूर्वकं व्यकीर्यत विक्षिप्तः ॥ ६१ ॥

 उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् ।
 चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ ६२ ॥

 उमेति ॥ उमापि नीलालकानां मध्ये शोभत इति तत्तथोक्तम् , अलकन्यस्तमित्यर्थः । नवकर्णिकारं विसंसयन्ती कर्णाच्युतः पल्लवो यस्य तेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार । क्रियाग्रहणासंप्रदानत्वम् ॥ ६२ ॥

 अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन ।
 न हीश्वरव्याहृतयः कदाचित्पुष्णन्ति लोके विपरीतमर्थम् ॥१३॥

 अनन्येति ॥ सा कृतप्रणामा देवी भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् ।

'भजो ण्विः' (पा. ३।२।६२) इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे

पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता । उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथा हि-ईश्वरव्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने । 'लोकस्तु भुवने जने' इत्यमरः । विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति, न बोधयन्तीत्यर्थः॥ ६३ ॥

 कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गव्दह्निमुखं विविक्षुः ।
 उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ।। ६४ ॥

 कामस्त्विति ॥ कामस्तु बाणावसरं प्रतीक्ष्य, उमासंनिधानादयमेव बाणप्रयोगसमय इति ज्ञात्वा पतङ्गेन तुल्यं पतङ्गवच्छलभवत् । 'समौ पतङ्गशलभौ' इत्यमरः । 'तेन तुल्यं क्रिया चेद्वतिः' (पा. ५।१।११५) इति वतिप्रत्ययः । वह्निमुखं विविक्षुः प्रवेष्टुमिच्छुः । विशतेः सन्नन्तादुप्रत्ययः । उमायाः समक्षमक्ष्णः समीपमुमासमक्षम् । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (पा. ५।४।१०७) इति समासान्तोऽप्रत्ययः। हरे बद्धलक्ष्यः सन् । शरासनस्य ज्यां मौवीं

मुहुराममर्श परामृष्टवान् ॥ ६४ ॥