पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
[ सर्गः ४
कुमारसंभवे

मूढत्वान्निश्चेष्टा कामवधू रतिः । असह्या दुःसहा वेदना यस्मिंस्तत्तथोक्तम् । विधवाया गतभर्तृकाया भावो वैधव्यम् । नवं च तद्वैधव्यं चेति नववैधव्यम् । 'नव'ग्रहणं दुःसहत्वद्योतनार्थम् । प्रतिपादयिष्यताऽनुभावयिष्यता। क्रियार्थ- क्रियायां लृट् । विधिना दैवेन । 'विधिर्विधाने देवे च' इत्यमरः । विबोधिता, वैधव्यानुफलोऽयं विधिरिति भावः । अस्मिन्सर्गे वियोगिनीवृत्तानि–'विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी' इति लक्षणात् ॥ १॥

 अवधानपरे चकार सा प्रलयान्तोन्मिपिते विलोचने ।
 न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥ २॥

 अवधानेति ॥ सा रतिः प्रलयान्ते मूर्छावसाने । 'प्रलयो नष्टचेष्टता' इत्य- मरः । उन्मिषिते उन्मीलिते विलोचने । अवधानं परं प्रधानं ययोस्तेऽवधानपरे दिद्दक्षयाऽवहिते चकार । द्रष्टव्याभावात्तु न विवेदेत्याह-नेति । प्रियं कामम- तृप्तयोस्तृप्तिं न गतयोः, नित्यदिदृक्षमाणयोरित्यर्थः । तयोर्लोचनयोः । दर्शनक्रिया- पेक्षया संबन्धे षष्टी । अत्यन्तविलुप्तं दर्शनं स्वलोचनयोः करणयोर्यस्य कर्मभूतस्य तमत्यन्तविलुप्तदर्शनं सन्तं न विवेद न ज्ञातवती । प्रियनाशापरिज्ञानाद्दिद्दक्षां चक्र इति तात्पर्यार्थः ॥ २ ॥

 अयि जीवितनाथ ! जीवसीत्यभिधायोत्थितया तया पुरः ।
 ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ ३॥

 अयीति ॥ 'अयि' इति प्रश्ने । 'अयि प्रश्नानुनययोः' इति विश्वः । अयि जीवितनाथ ! जीवसि प्राणिषि कच्चित् ? इत्यभिधायोस्थितया तया रत्या पुरोऽमे क्षितौ पुरुषस्याकृतिरिवाकृतिर्यस्य तत्पुरुषाकृति केवलमेकं हरकोपानलभस्म ददृशे दृष्टम् , न तु पुरुष इति भावः ॥ ३ ॥

 अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी ।
 विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम्॥४॥

 अथेति ॥अथ भस्मदर्शनानन्तरं पुनरेव विह्वला विक्लवा वसुधालिङ्गनधूसर- स्तनी वसुधालिङ्गनेन क्षितिलुण्ठनेन धूसरौ धूसरवर्णौ स्तनौ कुचौ यस्याः सा


पाठा०-१ निमम. २ धूसराकृतिः.