पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
[ सर्गः ४
कुमारसंभवे

ताडितवती च । तथा हि-स्वजनस्याग्रतो दुःखं विवृतमपसारितं द्वारं कपाटं यस्य तदिवोपजायत आविर्भवति, उच्छृङ्खलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः ॥ २६ ॥

 इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त ! किं स्थितम् ।
 तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ।। २७ ॥

 इतीति ॥ दुःखमस्याः संजातं दुःखिता, संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिरेनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त ! पश्य सुहृदस्त्वत्सखस्य किं स्थितं किमुपस्थितं, तदिदं कपोतकर्बुरं पारावतशबलं कणशश्चूर्णीभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते विक्षिप्यते, पश्य भस्मीभूतस्ते सुहृदित्यर्थः ॥ २७ ॥

 अयि संप्रति देहि दर्शनं स्मर ! पर्युत्सुक एष माधवः ।
 दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ २८ ॥

 अयीति ॥ अयि स्मर! संप्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सुकस्त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्क्याह-नृणां पुरुषाणां दयितासु प्रेमानवस्थितमस्थिरम् , चलमित्यर्थः । सुहृजने प्रेम तु नचलं खलु ॥ २८ ॥

 ईदृशाः सुहृदः कति न सन्तीत्याशङ्क्य कोऽपीत्याह-

 अमुना ननु ! पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव ।
 बिसतन्तुगुणस्य कारितं धनुपः पेलवपुष्पपत्रिणः ।। २९ ॥

 अमुनेति ॥ ननु मदन ! पार्श्ववर्तिना सहचरेणामुना वसन्तेन ससुरासुरं सुरासुरसहितं जगत् , बिसतन्तुगुणस्य मृणालसूत्रमौर्वीकस्य पेलवानि कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् , जगदाज्ञाकारितेत्यर्थः ।'हृक्रोरन्यतरस्याम्'(पा. ११४।५३) इति जगतः कर्मत्वम् ॥ २९ ॥

 गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
 अहमस्य दर्शव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ ३० ॥


पाठा०-१ यदिद. २ प्रकीर्यते. ३ कपोतपाण्डुरम्. ४ कोमल, पेशल.५ व्यसनप्रधूमिताम्.

टिप्प०-1 श्लोकोऽयं रघुवंशस्य (८/५६) लोकेन सह तुल्ययोगितया विमर्शमर्हति ।