पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २७-३२]
८३
रतिविलापवर्णनम्

 गत इति ॥ स ते सखाऽनिलाहतो वायुताडितो दीप इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिरिव, तिष्ठामीति शेषः ।'दशावर्ताववस्थायां वस्त्रान्ते स्युर्दशा अपि' इति विश्वः । कुतः ? अविषह्यव्यसनेन सोढुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य, धूमवत्त्वान्नष्टदीपदशा- साम्यं, धूमश्च व्यसनमेवेत्यर्थः ॥ ३० ॥

 विधिना कृतमर्धवैशसं ननु ! मां कामवधे विमुञ्चता ।
 अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ३१ ॥

 विधिनेति ॥ ननु वसन्त! कामवधे मदनवधे मां विमुञ्चता वर्जयता,अमारयतेत्यर्थः । विधिना दैवेन । विशसति हिनस्तीति विशसो धातुकः । पचाद्यच् । विशसस्य कर्म वैशसम् । युवादित्वादण्प्रत्ययः । अर्धवैशसमर्धवधः कृतम् । 'अर्धो वा एष आत्मनो यत्पत्नी' इति श्रुतेः । पत्युः स्वस्य चाश्रया-श्रयिभूतयोरेकपदार्थत्वाभिप्रायेणार्धोक्तिः । तथा चैकदेशवधे देशान्तरस्यापि वधनियमनान्मामपि विधिरघ्नन्नेव हतवानिति तात्पर्यम् । एतदेवोपपादयति-अनपाधिन्यनपायित्वेन विश्वस्ते संशयद्रुम आश्रयवृक्षे गजभग्ने सति वल्लरी लता पतनाय भवतीति शेषः, पतितुमेव साऽलमित्यर्थः । 'तुमर्थाच्च भाववचनात्'(पा, २/३/१५) इति चतुर्थी ॥३१॥

 संप्रत्यनन्तरकर्तव्यं प्रार्थयते--

 तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
 विधुरां ज्वलनातिसर्जनान्ननु ! मां प्रापय पत्युरन्तिकम् ॥ ३२ ॥

 तदिति ॥ तत्तस्मात्कारणादुक्तप्रकारेण, अन्यथापि मरणस्यावश्यंभावादित्यर्थः । अनन्तरं भवतेदं वक्ष्यमाणं बन्धुजनप्रयोजनं बन्धुकृत्यं क्रियताम् । प्रार्थनायां लोट् । तदेवोपदिशति-ननु वसन्त ! विधुरां विवशां मां ज्वलनाति सर्जनादग्निदानात्पत्युरन्तिकं प्रापय, अग्निप्रवेशनं कारयेत्यर्थः ॥ ३२॥


पाठा०-१ अनघापि हि. २ संश्रिता द्रुमे. ३ भर्तुः.

टिप्प०----1 श्लोकेनानेन (रघु० ८।४७) 'अथवा मम' इति श्लोकः तुलनां स्मारयति ।