पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४५-५१]
१०५
पार्वत्या प्रत्युत्तरीकरणे सखीं प्रति निर्देशः

न्यस्ताः श्थलम्बिनीः कलमाः शालिविशेषास्तेषामग्राणि तद्वत्पिङ्गला जटा उपेक्षते, यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः ॥ ४७ ॥

 मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।
 शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥४८॥

 मुनिव्रतैरिति ॥ मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशी- कृतां दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शान्मृदुत्वाञ् श्यामीकृतानि विभूषणास्पदानि भूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्कलेखामिव स्थितां त्वां पश्यतः सचेवसो जीवतः कस्य पुंसो मनो न दूयते न परितप्यते ? अपि तु सर्वस्यैवेत्यर्थः ॥ ४८ ॥

 अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
 करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ४९

 अवैमीति ॥ तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण का, वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनो- ऽरालपक्ष्मणः कुटिलरोम्णः । 'अराल वृजिनं जिह्मम्' इत्यमरः । अस्य त्वदीयस्य चक्षुष आत्मीयं वकं मुखं चिरं लक्ष्यं विषयं न करोति, दृष्टिपथं न गच्छती- त्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः ॥ ४९ ॥

 कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसंचितं तपः ।
 तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ५०

 कियदिति ॥ हे गौरि! कियर्त्किंप्रमाणकम् , किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि ? अत्यन्तसंयोगे द्वितीया। ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपो विद्यते । अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्य- ग्वेदितुं ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा ममापि संमतिरिति भावः ५०

 इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
 अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥ ५१ ॥

 इतीति । इतीत्थं द्विजन्मना द्विजेन प्रविश्यान्तर्गत्वा, आप्तवद्रहस्यमुद्भा-