पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १७-२३]
१२५
मुनिकृतं शिवस्तवनम्

  त्वत्संभावितमात्मानं बहु मन्यामहे वयम् ।
  प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ २० ॥

 त्वदिति ॥ वयं त्वया संभावितं सस्कृतं त्वसंभावितमात्मानमात्मस्वरूपं बह्वधिकं यथा तथा मन्यामहे । तथा हि-उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायेण भूम्ना प्रत्ययं विश्वासमाधत्ते जनयति, सर्वस्यापि महाजनपरिग्रह एव पूज्यताहेतुरित्यर्थः ॥ २० ॥

  या नः प्रीतिर्विरूपाक्ष ! त्वदनुध्यानसंभवा ।
  सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥ २१ ॥

 येति ॥ हे विरूपाक्ष ! त्वदनुध्यानसंभवा त्वकर्तृकस्मरणजन्या नोऽस्माकं या प्रीतिः सा प्रीतिस्तुभ्यं किमावेद्यते किमर्थ निवेद्यते ? तथा हि-देहिनां प्राणिनामन्तरात्मान्तर्याम्यसि । सर्वसाक्षिणा स्वयास्मत्प्रीतिरनावेदितापि ज्ञायत एवं यतस्ततो न बुद्धबोधनं संभवतीति भावः ॥ २१ ॥

  साक्षाद्दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा ।
  प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥२२॥

 साक्षादिति । हे देव ! साक्षात्प्रत्यक्षेण दृष्टोऽसि । अञ्जसा पुनस्तत्त्वतस्तु त्वां वयं न विद्मः । दृश्यमानस्य रूपस्यातात्त्विकत्वादिति भावः । अतः प्रसीदानुगृहाण, आत्मानं निजस्वरूपं कथय । न चाकथितं तत्सुबोधमित्याह-धियां बुद्धीनां पथि न वर्तसे । अतस्त्वयैव त्वद्रूपं कथनीयमित्यर्थः ॥ २२ ॥

 तात्त्विकं रूपं तावदास्तां, न दृश्यमानमपि रूपं तत्त्वतो रूपयितुं शक्यमि- त्याह-

  किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् ।
  अथ विश्वस्य संहर्ता भागः कतम एष ते ॥ २३ ॥

 किमिति ॥ हे देव ! एष दृश्यमानस्ते भागो मूर्तिः किं येन भागेन व्यक्तं प्रपञ्चं सृजसि सः? यत्तदोर्नित्यसंबन्धात्सर्वत्र तच्छब्दोऽध्याहार्यः । उत येन भागेन तव्यक्तं बिभर्षि पालयसि स वा? अथ यो भागस्तस्य विश्वस्य संहर्ता


पाठा०-१ आख्यायते. २ नो विद्मः पुनः. ३ यस्तस्य.