पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३८-४४]
१३१
औषधिप्रस्थवर्णनम्

व्यवस्थापितैस्ताडनविशेषैः । तदुक्तं राजकंदर्पेण् -'नृत्यवादित्रगीतानां प्रयोग- वशभेदिनाम् । संस्थानं ताडनं रोधः करणानि प्रचक्षते ॥' इति । व्यज्यन्ते स्फुटीक्रियन्ते ॥ ४॥

यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयत्रपताकाश्रीरपौरादरनिर्मिता ॥४१॥</poem>}}

यत्रेति ॥ यत्र नगरे विलोलानि चञ्चलानि विटपेष्वंशुकानि येषां तैः

कल्पद्रुमैरेवापौरादरेण पौरादरं विनैव निर्मिता । अयत्नसिद्धेत्यर्थः । गृहेषु यानि

यंत्राण्याधारदारूणि तेषु पताकास्तासां श्रीः। संभवतीति शेषः । तत्र लम्बाम्बराः कल्पतरव एव वैजयन्तीति संभाव्यन्त इत्यर्थः ॥ ११ ॥

यत्र स्फटिकहर्येषु नक्तमापानभूमिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥ ४२

यत्रेति ॥ यत्र पुरे नक्तं रात्रौ स्फटिकहर्म्यष्वापानभूमिषु पानगोष्ठीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिबिम्बान्युपहारतां पुष्पोपहारत्वं मौक्तिकोपहारत्वं वा प्राप्नुवन्ति ॥ ४२ ॥

यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥ ४३ ॥

यत्रेति ॥ यत्र पुरे दुर्दिनेषु मेघच्छन्नदिवसेषु नक्तमोषधीनां त्ऱुण ज्योतिषां प्रकाशेन संचरन्त एभिरिति संचराः पन्थानः । 'गोचरसंचर-' (पा. ३।३।११९) इत्यादिना घप्रत्ययान्तो निपातः । दर्शितसंचराः प्रकाशितमार्गा अभिसारिकाः कान्तार्थिन्यः । 'कान्तार्थिनी तु या याति संकेतं साभिसारिका' इत्यमरः । तमिस्राणां तमसाम् । कृद्योगात्कर्मणि षष्ठी । अनभिज्ञाः। तमांसि नाभिजान- न्तीत्यर्थः ॥ ४३ ॥

यौवनान्तं वयो यस्मिन्नान्तकः कुसुमायुधात् । रतिखेदेसमुत्पन्ना निद्रा संज्ञाविपर्ययः ।। ४४ ॥<

यौवनान्तमिति ॥ यस्मिन्पुरे वयो यौवनान्तं यौवनावधिकम् । सर्वेऽप्य-

पाठा०-१ पङ्क्तिषु. २ समुत्थाना.