पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
[ सर्गः ७
कुमारसंभवे

कर्षेत्यथ्ः । गोरोचनारुणे गण्डस्थले पाण्डुरो यवाङ्कुरो विजातीयवर्णसंनिधाना- ल्लब्धवर्णोत्कर्षः संश्चक्षुराकर्षकोऽभूदिति भावः ॥ १७ ॥

 रेखाविभक्तः सुविभक्तगात्र्याः किचिन्मधूच्छिष्टविमृष्टरागः ।
 कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽधरोष्ठः ॥१८॥

 रेखेति ॥ सुविभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या रेखया मध्यगतया विभक्तः सुश्लिष्टः किंचिदीषन्मधूच्छिष्टेन सिक्थकेन विमृष्टो विशेषेण निर्मली- कृतो रागो यस्य स तथोक्तः । 'मधूच्छिष्टं तु सिक्थकम्' इति, 'निर्णिक्तं शोधितं मृष्टम्' इति चामरः । अन्यत्रोक्तम् -'अलौहित्यापगमायाधरेपु सिक्थकलेपः क्रियते' । आसन्नं संनिहितं लावण्यफलं सौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः स्फुरितैर्भाविशुभशंसिभिः स्पन्दैः कामप्यनिर्वाच्यामभिख्या शोभामपुष्यत्पुपोष । 'अभिख्या नामशोभयोः' इत्यमरः ॥ १८ ॥

 पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
 सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जधान ॥१९॥

 पत्युरिति ॥ संख्या कर्त्र्या । चरणौ रञ्जयित्वा लाक्षारसातौ कृत्वा । कृता- शीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन । रञ्जने द्वयोरपि नियमात् 'चरणौ' इत्युक्त्वाप्यौचित्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युरीश्वरस्य शिरश्चन्द्रकलाम्, सुरतविशेष इति शेषः । 'स्पृश ताडय' इति परिहासपूर्व कृताशी प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया। 'माल्यं माला- सजौ' इत्यमरः । निर्वचनं यथा तथा तूष्णीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः शृङ्गारानुभाव उक्तः । तदुक्तम्-'प्राप्तकालं तु यद्ब्रूयात्कुर्याद्वा विहृतं हि तत्' इति ॥ १९ ॥

 तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य ।
 न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥२०॥

 तस्या इति ॥ प्रसाधिकाभिरलंकर्त्रीभिः सुजाते सम्यगुत्पन्ने उत्पलपत्रे इव कान्ते रम्ये तस्या नयने निरीक्ष्य कालाञ्जनमञ्जनविशेषश्चक्षुषोः कान्तिविशेष-


पाठा०-१ च विभक्त, २ विसृष्ट. ३ समीक्ष्य.