पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १८-२३]
१५३
पार्वत्या हाराद्याभरणार्पणवर्णनम्

बुद्धया शोभातिशयो भविष्यतीति बुद्ध्येत्यर्थः, नोपात्तं न गृहीतं किंतु मङ्गलं शुभमिति हेतोरुपात्तम् । निसर्गसुभगस्य किमाहार्यकाडम्बरेणेति भावः ॥२०॥

 सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा ।
 सरिद्विहंगैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥ २१ ॥

 सेति । आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी संभवद्भिरुत्पद्य- मानैः कुसुमैर्लतेव । अनेन पद्मरागेन्द्रनीलादीन्याभरणानि सूचितानि, लताकुसु. मानां नानावर्णत्वात् । उद्यद्भिरुदयं गच्छद्भिर्ज्योतिर्मिरुडुभिस्त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लीयमानैराश्रयद्भिः, निपीदद्भिरित्यर्थः । विहंग- श्चक्रवाकैः सरिदिव । अनेन सुवर्णाभरणानि सूचितानि । विहंगाश्च तत्सूचनाय चक्रवाका अभिमताः । चकासे रेजे । अत्र लताकुसुमादीनां सहजसबन्धिनामु- पमानत्वेनोपादानादाहार्यकमपि तस्याः सहजमिवाशोभतेति भावः॥ २१ ॥

 आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
 हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेशः॥२२॥

 आत्मानमिति ॥ किंचेति चार्थः । गौरी शोभमानमात्मानं निजशरीरमा- दर्शबिम्बे दर्पणमण्डले । 'दर्पणे मुकुरादशौं' इत्यमरः। स्तिमितायताक्ष्यादरा- न्निश्चलायतलोचना सत्यालोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा बभूव । स्त्रीणां वेशो नेपथ्यं प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य स तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः । अनेन कालाक्षमत्वलक्षणमौत्सुक्य- मुक्तमित्यनुसंधेयम् ॥ २२॥

 अथाङ्गुलिभ्यां हरितालमार्द्रं माङ्गल्यमादाय मनःशिलां च ।
 कर्णावसक्तामलदन्तपत्रं माता तदीय मुखमुन्नमय्य ।। २३॥

 अथेति ॥ अथ प्रसाधनानन्तरं माता मेनका माङ्गल्यं मङ्गलार्थमार्द्रं द्रवं हरितालं वर्णद्रव्यविशेषं मनःशिलां धातुविशेषं चाङ्गुलिभ्यां तर्जनीमध्यमा- भ्यामादाय कर्णयोरवसक्ते लग्ने अमले दन्तपत्रे यस्य तत्तथोक्तं तस्याः पार्वत्याः इदं तदीयं मुखमुन्नमय्य । 'विवाहदीक्षातिलकं चकार' (७।२४) इत्युत्तर- श्लोकेनान्वयः ॥ २३ ॥


पाठा०-१ अङ्गुलीभ्याम् . २ मङ्गल्यम्.