पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
[ सर्गः ८
कुमारसंभवे

गच्छन्तीत्यर्थः । निर्झरकणपतितसायन्तनकिरणैरुद्भासमानेन्द्रचापपरिधिता सूर्य- स्यास्तंगतत्वाद्विलीना इति भावः ॥ ३१ ॥

 दष्टतामरसकेसरस्रजोः क्रन्दतोविपरिवृत्तकण्ठयोः ।
 निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥३२॥

 दष्टेति ॥ हे प्रिये ! दृष्टा तामरससंबन्धिना केसराणां स्रक् याभ्यां तयोः । तथा विपरिवृत्तौ परस्परपराङ्मुखीभूतौ कण्ठौ ययोः। तथा निघ्नयोः परस्पराधी- नयोः। 'अधीनो निघ्नः आयत्तः' इत्यमरः । अत एव क्रन्दतो रुदतोः । तथा सरसि स्थितयोश्चक्रवाकयोरल्पमन्तरं वियोगोऽनल्पतामतिशयिततां गतम् , प्राप्तमित्यर्थः ॥ ३२॥

 स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
 आविभातचरणाय गृहते वारि वारिरुहबद्धषट्पदम् ।। ३३ ॥

 स्थानमिति ॥ हे प्रिये ! दन्तिनो गजाः सल्लकीविटपा वृक्षविशेषास्तेषां भङ्गैः खण्डैर्वासितं सुगन्धितमाह्निकं दैनं स्थानमपास्य त्यक्त्वा । विभातमारभ्येत्याविभातं यच्चरणमाचरणम् , सांध्यं कृत्यमिति यावत् । तस्मै तत्कर्तुम् । वारिरुहेपु कमलेषु बद्धाः षट्पदा भ्रमरा यत्र तादृशं वारि जलं गृह्णते, करेणाददत इत्यर्थः । गम्योत्प्रेक्षा ॥ ३३ ॥

 पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे! विवस्वता ।
 लब्धया प्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ ३४ ॥

 पश्येति ॥ हे मितकथे मिताः परिमिताः कथा यस्यास्तत्संबोधनं हे मित- भाषिणि प्रिये ! पश्चिम दिगन्तं लम्बते तथोक्तेन विवस्वता सूर्येण लब्धया प्रतिमया प्रतिविम्बेन कृत्वा सरःसंबन्धिनामम्भसां तापनीयं सौवर्ण सेतोबन्धनमिव निर्मि- तम् , कृतमित्यर्थः । इति त्वं पश्य । तरङ्गितसरोजलेषु पतितमत एवाविरलतया सहस्रधा विभक्तं स्वप्रतिबिम्बमेव सूर्यनिर्मितः सेतुरिवेत्युत्प्रेक्षा। 'तपनीयं शात- कुम्भम्' इत्यमरः । ततः 'तस्य विकारः' (पा. ४।३।१३४) इत्यण् ॥ ३४ ॥

पाठा०-१ त्यजोः. २ विरहदीनकण्ठयोः. ३ भिन्नयोः. ४ आविभाति शरणाय

गच्छतः सान्ध्यकर्मविधयेऽनुगृह्णते. ५ कथमिदम्. ६ दीर्घया.