अमीषां सरसंघानां त्वमेकोऽर्थसमर्थने ।
विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ! ॥ २३ ॥
अमीषामिति ॥ भो अनल! अमीषां सुरसंघानां देवसमूहानामस्मदादी- नामर्थसमर्थने कार्यसाधने विषये त्वमेक एव समर्थोऽसि । एवंविधोऽप्यहं विपन्नः किं करोमीत्याह-विपत्तिरिति । उपकारेषु परहितेपु व्रतिनो नियमवतः पुरुषस्य विपत्तिरपि सम्यक् श्लाघ्या भवति । अतो विपन्नोऽपि स्तूयस इति भावः ॥ २३ ॥
सप्रत्युपायमुपदिशति-
देवी भागीरथी पूर्वं भक्त्यास्माभिः प्रतोषिता ।
निमज्जतस्तवोदीर्णं तापं निर्वापयिष्यति ॥ २४ ॥
देवीति । पूर्वमस्माभिर्भक्त्या प्रतोषिता भागीरथी देवी निमज्जतः स्नानं कुर्वतस्तवोदीर्णमत्युल्बणं तापं निर्वापयिष्यति, प्रशामयिष्यतीत्यर्थः ॥ २४ ॥
गङ्गां तद्गच्छ मा कार्षीर्विलम्बं हव्यवाहन! ।
कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ २५ ॥
गङ्गामिति ॥ भो हव्यवाहन ! तत्तस्माद्गङ्गां देवीं गच्छ याहि । विलम्बं मा कार्षीर्मा कुरु । 'न माङ्योगे' (पा. ६।४।७४ ) इत्यडागमनिषेधः । तथा हि- अवश्यकार्येष्ववश्यकर्तव्येषु कार्येषु सिद्धये क्षिप्रकारिताऽनलसितत्वम् , उचितेति शेषः । तस्मात्त्वया शीघ्रमेव गन्तव्यमिति भावः ॥ २५ ॥
ननु शक्तेनापि मया दुर्वाह्यं शैवं तेजो गङ्गा कथं धरिप्यतीत्याशङ्क्याह-
शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ॥ २६ ॥
शंभोरिति ॥ भो अग्ने ! शंभोरम्भोमयी जलमयी मूर्तिर्देवी सा सुरापगैव गङ्गैव दुर्धरं स्मरद्विषो हरस्य बीजं तेजस्त्वत्त आदाय धारयिष्यति, धरिष्यती- त्यर्थः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः ॥ २६ ॥
पाठा०-१ सुरसैन्यानाम्. विपदोऽपि पदं श्लाघ्योपकारयति नो हि सः; विपदोऽपि पदं श्लाघोपकारव्रतिनो हि सा. ३ विषादम्. ४ अर्थेष्ववश्यकार्येषु सिद्धये
क्षिप्रकारिता. ५ तत्र गत्वा च तद्वीजममोघं मुञ्च सुस्थिरम्.