पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
[ सर्गः १०
कुमारसंभवे

न्याधिहेतुकं कंचिददनीयं पदार्थं कंचिदपि पुरुषं दर्शयित्वास्वाद्य च तत्पदार्थ- दोषं कथयति तथेयमपीति बोद्धव्यम् । अभ्रंकषैरिति 'सर्वकूलाभ्रकरीषेषु-' (पा. ३|२|४२ ) इत्यभ्रोपपदकात्कषेः खश् ॥ ४४ ॥

  सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
  बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ॥४५॥

 सुस्नातानामिति ॥ सुस्नातानां मुनीन्द्राणां सप्तर्षीणां बलिकर्मणि पूजा- विधावुचितानि योग्यानि तैः । यथा दूर्वाभिरक्षतैश्चान्वितैर्युक्तैः पुष्पोत्करैः कुसुम- समूहैर्बहिः कीर्णतीरां व्याप्तसैकताम् । 'लाजाः पुं भूम्नि चाक्षताः' इत्यमरः । 'अलं'शब्दोऽत्रात्यर्थवाचकः । स च 'कीर्णतीराम्' इत्यतः प्रागन्वयितव्यः ॥४५॥

  ब्रह्मध्यानपरैर्योगपरैर्ब्रह्मासनस्थितैः ।
  योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम् ॥ ४६॥

 ब्रह्मेति ॥ ब्रह्मासने स्थितैः । तथा ब्रह्मणो ध्याने परैः सक्तैः । तथा योग एव निद्रा तां गतैः तथा योगपट्टस्य बन्धो बन्धनं येषां तैः, योगपट्टं बध्नद्भि- रित्यर्थः । एवंविधैर्योगपरैर्योगिभिरुपाश्रितां सेविताम् । “उभौ जानू ऊर्ध्वतमौ सकठ्युपसुवाससा । बद्धौ च कृत्वा सततं ध्यायेत्परमनन्यधीः ॥” इति योग- लक्षणम् ॥४६॥

  पादाङ्गुष्ठाग्रभूमिस्थैः सूर्यसंबद्धदृष्टिभिः ।
  ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥ ४७ ॥

 पादेति ॥ पादसंबन्धिनोऽङ्गुष्टस्याग्रेणैव, न समग्रपादेनेत्यर्थः । भूमिस्थैः, पृथिव्यां स्थितैरित्यर्थः । तथा सूर्ये संबद्धदृष्टिभिरन्वितविलोचनैः । तथा परं ब्रह्म गृणद्भिर्जपद्भिर्ब्रह्मर्षिभिः सप्तर्षिभिरुपसेवितामुपाश्रिताम् ॥ ४७ ॥

  अथ दिव्या नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
  कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी ॥४८॥

 अथेति ॥ अथानन्तरं ताः कृत्तिका दिव्यां स्वर्गीयां नदीं देवीं गङ्गां विलो-

पाठा०-१ ब्रह्मा. २ योगिवरैः. ३ पद्मासनः. ४ भोगिभोगबद्धैः; भोगिभोग-

युक्तैः. ५ भूमिष्ठैः; भूयिष्ठैः. ६ संविष्ट. ७ देवीं धुनीम् ; दिव्यनदीम्. ८ देवी.