स्तादृङ्न भवतीत्यभूतपूर्वो महोत्सवो महानुत्सवोऽयं शिशुर्बभूव । जन्यजनकयोर- भेदविवक्षया 'आयुर्घतम्' इतिवन्महोत्सवोऽयमिति प्रयोगः ॥ १२-१३ ॥
अशेषेति ॥ हे प्रिये ! अशेषविश्वस्य समस्तजगतः प्रियं प्रीतिकारकम् । 'इगुपध-' (पा. ३।१।१३५ ) इत्यनेन कः । तथाभूतं दर्शनं यस्य तथोक्तेनैतेन । अत्रान्वादेश एतच्छब्दस्य नित्यमेनादेशनियमात् कथमेनाभावः साधुः ? सत्यम् ; अत्रान्वादेश एव नास्ति; तत्र किंचिद्विधानोद्युक्त्याश्रयीभूतस्य पुनरुपादाना- श्रयीभूतस्य च भेदाभाववत्त्वेन विवक्षितत्वात् । प्रकृते तु तदन्यथात्वादन्वादेशा- भावेनैनादेशाभावसिद्धिरित्यलम् । त्वं सुपुत्रिणीनां शोभनपुत्रवतीनां धुर्याऽग्र- गण्या, श्रेष्ठतमेति यावत् । असीति शेषः । हे अचलराजपुत्रि ! विलम्ब्य विलम्बं कृत्वाऽलम् , विलम्बो न कर्तव्य इत्यर्थः । किंतु स्वपुत्रमात्मतनूजमुत्सङ्गतलेऽङ्कतले निधेहि स्थापय ॥ १४ ॥
अथ युग्मेनाह-
अथेति ॥ किरीटेति ॥ अथामृतांशुश्चन्द्रो मौलौ यस्य तथाभूते हरे । इति पूर्वोक्तप्रकारेण वादिनि भाषमाणे सति । समस्तस्य सकलस्य चराचरस्य जगतो धात्री परिपोषिका । 'ऋन्नेभ्यः-' (पा. ४।१।५) इति ङीप् । तथा सान्द्रः सघनो यः प्रमोद आनन्दस्तेन सुतरां पीनं प्रफुल्लत्वात्पुष्टं गात्रं यस्यास्तथाभूता शैलेन्द्रस्य हिमालयस्य पुत्री कन्या पार्वती नभःस्थैः, तत्काल आकाशमाश्रयद्भिरित्यर्थः । तथा सत्वरैश्च नाकिलोकैरिन्द्रादिलोकैः किरीटेषु बद्धा अञ्जलयो यैस्तथाभूतैः सद्भिर्नमस्कृता वन्दिता सती सद्यो रभसेन वेगेन विमानतो विमानात् । पञ्चम्या-