पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
[ सर्गः ११
कुमारसंभवे

स्तसिल् । अवातरदुत्ततार। अथ च तमात्मजं कुमारं ग्रहीतुमुत्कण्ठितमानसा चाभूत् , अहमेनं गृह्णामीति मनस्यैच्छदित्यर्थः ॥ १५-१६ ॥

 स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि भूयः ।
 हित्वोत्सुका तं सुतमाससाद पुत्रोत्सवे माद्यति का न हर्षात् ॥१७॥

 स्वर्गेति ॥ पुत्रोत्सव उत्सुकोत्कण्ठिता पार्वती । स्वर्गापगा गङ्गा तया सहिता याः पावककृत्तिकास्ता आदयो येषां तान् । अत्र 'आदि'शब्देनेन्द्रादयो ग्राह्याः । स्वर्गापगा च पावकश्च कृत्तिकाश्चेति द्वन्द्वसमासेऽल्पाच्तरत्वात् 'पावक'शब्दस्य पूर्वनिपातः प्रसज्येतेति पूर्वरीतिरादृता । तान् कृताञ्जलीनत एव भूयोऽतिशयमानमतो नमस्कुर्वतोऽपि हित्वा परित्यज्य तं सुतमाससाद प्राप । तथा हि- हर्षादानन्दवशात् का न माद्यत्युन्मत्ता न भवति ? पुत्रोत्सवेन सर्वासामुन्मत्तत्वं भवतीति भावः ॥ १७ ॥

 प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
 परिस्पृशन्ती करकुड्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ १८ ॥

 प्रमोदेति ॥ सा पार्वती । अग्रतः स्थितमपि तं पुत्रं क्षणं न ददर्श । यतः प्रमोदबाष्पैरानन्दाश्रुभिराकुले व्याप्तत्वाद्दर्शनाशक्ते लोचने यस्याः, आनन्दाश्रुभिरन्धीभूतेत्यर्थः । अथ च कर एव कुड्मलं कलिका तेन परिस्पृशन्ती सती किमपि लोकोत्तरमपूर्वम्, अभूतपूर्वमित्यर्थः । शाकपार्थिवादीनामुत्तरपदलोपः । सुखान्तरम् , अन्यत्सुखमित्यर्थः । 'अन्तर'शब्दोऽत्रोपमानाभावद्योतकः । प्राप प्राप्तवती ॥ १८ ॥

 सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बष्पतरंगितायाः ।
 विवृद्धवात्सल्यरसोत्तराया देव्या दृशोर्गोचरतां जगाम ॥ १९ ॥

 सुविस्मयेति ॥ शिशुः कर्ता । सुतरां यौ विस्मयानन्दावाश्चर्यहर्षौ ताभ्यां विकस्वरायाः प्रफुल्लीभूतायाः तथा गलद्बाष्पैस्तरंगितायाः संजाततरंगायाः । तारकादित्वादितच् । वपुषि गलद्भिर्बाष्पजलैरुद्भूतप्रवाहकल्लोलकलिताया इत्यर्थः । तथा विवृद्धं यद्वात्सल्यं दयावत्त्वम्, पुत्रत्वादिति भावः। तत्र यो रसः प्रीतिः स

पाठा०-१ भूम्ना; मूर्धा. २ सुकान्तम्. ३ को न. ४ करकुड्मलाभ्याम्. ५ सविस्मय ६ दृशः.