पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६८
[ सर्गः १२
कुमारसंभवे

२६८ कुमारसंभवे [सर्गः १२

ज्ञानेति ॥ हे सर्वज्ञ ! तमोपहेनाज्ञानह--ऽविनश्वरेणाक्षयेणास्खलितप्रभेणा- स्खालतकान्तिना । अनेन विशेषणेनामन्दकान्तित्वं हि बोद्धव्यम् । अतो न पौन- रुक्त्यम् । तथाभूतेन ज्ञानप्रदीपेनात्मज्ञानरूपदीपकेन भूतं व्यतीतं भवद्वर्तमानं भावि भविष्यञ्च यत्किंचित्तत्सर्वमेव तव गोचरं ज्ञानविषयम् , अस्तीति शेषः । आत्मज्ञानेन त्रैकालिकस्यापि कर्मादिकस्य ज्ञातासीति भावः ॥ ४४ ॥

दुर्वारदोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण । तदीशतामाप्तवता निरस्ता वयं दिवोऽमी वद किं न वेत्सि ॥४५॥

दुर्वारेति ॥ हे भगवन् ! दुर्वारो दुर्धर्षणीयो यो दोरुद्यमो भुजदण्डबलं तेन कारणेन दुःसहेनात एवामराणां देवानां घस्मरेण वधकेन । 'घस्मरो वधकेऽपि च' इति मेदिनी । 'सृघस्यदः क्मरच्' ( पा. ३।२।१६० ) क्मरच्प्रत्ययः । ईशतां स्वर्गाधीशतामाप्तवता तारकेणामी वयं दिवः स्वर्गसकाशाद्यन्निरस्ता निष्कामिता- स्तन्न वेत्सि किम् ? अपि तु वेत्स्येव । वद । वाक्यार्थः कर्म ॥ ४५ ॥

विधेरमोघं स वरप्रसादमासाद्य सद्यस्त्रिजगज्जिगीषुः । सुरानशेषानहकप्रमुख्यान्दोर्दण्डचण्डो मनुते तृणाय ।। ४६॥

विधेरिति ॥ हे भगवन् ! स तारको विधेब्रह्मणः सकाशादमोघं सफलं वर- प्रसादमभिलाषानुग्रहम् । 'वरोऽभिलषिते वरे' इति मेदिनी । आसाद्य प्राप्य सद्यः सहसैव दोर्दण्डाभ्यां भुजदण्डाभ्यां चण्डः प्रचण्डः, दुर्जय इति यावत् । अत एव त्रिजगतो जिगीषुर्जेता सन् । अहकप्रमुख्यानहं प्रमुखो ज्येष्ठो येषु तथाभूतानशेषान्सर्वान्सुरान् । तृणाय तृणं मनुते मन्यते । 'मन्यकर्मण्य- नादरे विभाषाप्राणिषु' ( पा. २।३।१७ ) इति चतुर्थी सविकरणग्रहणात्तनोतियोगे चिन्त्या ॥ ४६॥

स्तुत्या पुरास्माभिरुपासितेन पितामहेनेति निरूपितं नः । सेनापतिः संयति दैत्यमेतं पुरः स्मरारातिसुतो निहन्ति ॥४७॥

पाठा०-१ दोर्दुर्मद. २ तदीश नन्वात्मपदान्निरस्ताः, तदीश वामाप्लवता निरस्ताः. ३ बत. ४ सुवर. ५ अम्मत्प्रमुख्यानमरानशेषान् ; सुरान्स जम्भारिमुखा- न्प्रचण्डं; सुरान्स जम्भारिमुरारिमुख्यान्. ६ एनम्. ७ पुरा स्मरारातिसुतः; पुरा

स्मरारेस्तनयः.