पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३३-३८]
२८५
कुमारस्य तारकत्रस्तामरराजधानीप्रवेशः

 नर्लूनलीलोपवनामपश्यद्दुःसंचरीभूतविमानमार्गाम् ।
 विध्वस्तसौधप्रचयां कुमारो विश्वैकसाराममरावतीं सः ॥ ३५॥

 निर्लूनेति ॥ स कुमारः कार्तिकेयः निर्लूनानि कर्तितानि लीलायाः क्रीडाया उपवनानि यस्याम् । तथा दुःखेन संचरः संचारो येषु तथाभूना विमानमार्गा विमानसंचारपथा यस्याम् । तथा विध्वस्ताः खण्डिताः, स्फोटिता इति यावत् । सौधप्रचया राजसदनसमूहा यस्याम् । 'सौधोऽस्त्री राजसदनम्' इत्यमरः । तथा विश्वस्मिन्नेकामेव सारां तत्त्वभूतां ताममरावतीमिन्द्रपुरीमपश्यत् । 'नगरी त्वमरावती' इत्यमरः ॥ ३५ ॥

 गतश्रियं वैरिवराभिभूतां दशां सुदीनामभितो दधानाम् ।
 नारीमवीरामिव तामवेक्ष्य स बाढमन्तः करुणापरोऽभूत् ॥३६॥

 गतश्रियमिति ॥ स कुमारः वैरिवरेण तारकेणाभिभूतां पूर्वोक्तविधिना पराभूताम् । पराभवोऽत्र विध्वंसनक्रियानुकुलो व्यापारो ग्राह्यः । अत एव गतश्रियं भ्रष्टशोभाम् । अत एव सुतरां दीनां कृपणाम् , अनुकम्प्यामिति यावत् । दशामवस्थामभितो दधानाम् । अत एवावीरां नपुंसकभर्तृकां नारीमिव स्थितां ताममरावतीमवेक्ष्यान्तर्मनसि बाढं बहु यथा तथा करुणायां पर आसक्तोऽभूत् ॥ ३६॥

 दुश्चेष्टिते देवरिपौ सरोपस्तस्याविषण्णः समराय चोत्कः ।
 तथाविधां तां स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ॥३७॥

 दुश्चेष्टित इति ॥ दुश्चेष्टिते दुष्कर्मणि देवरिपौ तारके विषये सरोपः सक्रोधः । तथा तस्य तत्कर्तृकाय समराय समरं युद्धं कर्तुमुत्कश्च तथाऽविषण्णोऽनलसः स कुमारः तथाविधां पूर्वोक्तप्रकारां तां सुराधीश्वरस्येन्द्रस्य राजधानीं पुरीं पश्यन्सन् सुरैः सह विवेश । तदन्तरिति शेषः ॥ ३७ ॥

 दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः ।
 महाहिनिर्मोकपिनद्धजालाः स वीक्ष्य तस्यां विपसाद सद्यः।।३८॥


पाठा०-१ असंचरी. २ सौख्यप्रचयाम्. ३ प्रसृष्टविश्वौकसाराम् ; प्रमृष्टवस्त्वेकसाराम्. ४ गर्भश्रियम्. ५ वैरिपराभिभूताम्. ६ स गाढम् : सबाष्पम्. ७ तस्यां विषण्णः. ८ च. ९ दैत्येन्द्रदन्तावलः. १० क्षुण्णान्तर. ११ संवीक्ष्य.

.