दन्तिनां गजानां दन्तैः क्षताः क्षुण्णा हैम्यो भित्तयः कुड्यानि यस्मिन् यस्य वा । सुतन्तदो लूतानां शोभनानि सूत्राणि तेषां जालेनाकुलं व्याकुलं रत्नजालं रत्नसमूहो यस्मिन् । तथा वैजयन्ताभिधं वैजयन्तसंज्ञकम् । 'स्यात्प्रासादो वैजयन्तः' इत्यमरः । आत्मसौधं स्वराजसदनं निन्ये प्रापितः । कर्मणि लिट् ॥ ४१ ॥
निर्दिष्टवर्त्मा विबुधेश्वरेण सुरैः समग्रैरनुगम्यमानः ।
स प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ॥४२॥
निर्दिति ॥ स कुमारः । विबुधेश्वरेणेन्द्रेण कर्त्रा । निर्दिष्टवर्त्मा 'इतो गमनं विधेयम्' इत्युक्तिपूर्वकप्रदर्शितमार्गः । तथा समग्रैः सुरैर्देवैरनुगम्यमानोऽनुस्नियमाणः सन् । विविधा अनेकवर्णा येऽश्मानो रत्नानि तेषां रश्मिभिः किरणैश्छिन्नेन भिन्नेन । रहितेनेति यावत् । तारककृतसोपानखचितरत्नोत्पाटनादिति भावः । सोपानपथेनारोहणमार्गेण । 'आरोहणे स्यात्सोपानम्' इत्यमरः । तं सौधं प्राविशत् ॥ ४२ ॥
निसर्गकल्पद्रुमतोरणं तं स पारिजातप्रसवस्रगाढ्यम् ।
दिव्यैः कृतस्वस्त्ययनं मुनीन्द्रैरन्तःप्रविष्टप्रमदं प्रपेदे ॥४३॥
निसर्गेति ॥ स कुमारः । निसर्गेण स्वभावेन, अनायासेनेति यावत् । 'निसर्गः शीलसर्गयोः' इति विश्वः । कल्पद्रुमा एव तोरणानि यत्र । तथा पारिजातस्य देववृक्षविशेषस्य प्रसवानां पत्रपुष्पाणां स्रजा मालयाढ्यं युक्तम् , पूजनार्थमनेकपत्रपुष्पसहितमित्यर्थः । तथा दिव्यैः स्वर्गीयैर्मुनीन्द्रैः कश्यपादिभिः कृतस्वस्त्ययनं विहितस्वस्तिवाचनम् । तथान्तःप्रविष्टा मध्यं प्रविश्य स्थिताः प्रमदाः स्त्रियो यत्र तं सौधं प्रपेदे प्राप ॥ ४३ ॥
पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
प्रदक्षिणीकृत्य कृताञ्जलिः सन्षड्भिः शिरोभिः सं नतैर्ववन्दे ॥४४॥
पादाविति ॥ स कुमारः । सुरासुराणां देवदैत्यानां कुल आदिवृद्धस्य कश्य-
पाठा०-१ तद्विविधात्मरश्मिच्छन्नेन; तं विविधेन रत्नाच्छन्नेन. २ तोरणाङ्कम् ; तोरणान्तम्. ३ सुपारिजात. ४ स्रजाढ्यम्. ५ कृतस्वस्त्ययनः. ६ कुमारः; प्रविश्य.
७ सः. ८ विनतैः.