पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५-९]
२९३
यमादीनां कुमारानुगमनम्

 अथेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम् ।
 अधिष्ठितः कासरमुद्धरं मुदा वैवस्वतो दण्डधरस्तमन्वंगात् ॥७॥

 अथेति ॥ अथानन्तरं वैवस्वतो यमः । 'कालो दण्डधरः श्राद्धदेवो वैवस्वतो- ऽन्तकः' इत्यमरः । इन्द्रनीलानां नीलमणीनामचलः पर्वतस्तद्वश्चण्डविग्रहं प्रचण्ड- देहम् , कालत्वाद्भयानकमित्यर्थः । तथा विषाणाभ्यां शृङ्गाभ्यां विध्वस्ता अधः- पातिता महापयोधरा बृहन्मेधा येन तथा । उद्धरमुद्भटं कासरं महिषम् । 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । अधिष्ठितोऽधिरूढः । तथा दण्डं धरतीति तथाभूतश्च सन् । मुदा प्रीत्या तं कुमारमन्वगादनुजगाम ॥ ७ ॥

 मंदोद्भुतं प्रेतमथाधिरूढवांस्तमन्धकद्वेषितनूजमन्वगात् ।
 महासुरद्वेषविशेषभीषणः सुरोपणश्चण्डरणाय नैर्ऋतः ॥ ८॥

 मदोद्धतमिति ॥ अथानन्तरं महासुरद्वेषेण तारकासुरवैरेण विशेषमधिकं यथा तथा भीषणो भयानकः । 'भीषणं रसशल्लक्योर्ना गाढे दारुणेऽपि च' इति मेदिनी। तथा सुतरां रोषणः क्रोधनो नैर्ऋतो राक्षसो नैर्ऋतकोणाधीश्वरो मदेन गर्वेणोद्धतं प्रेतं पिशाचमधिरूढवानास्थितवान्सन् चण्डरणाय प्रचण्डरणं कर्तुं तमन्धकद्वेषिणो हरस्य तनूज पुत्रं कुमारमन्वगादन्वियाय ॥ ८॥

 नवोद्यदम्भोधरघोरदर्शने युद्धाय रूढो मकरे महत्तरे ।
 दुर्वारपाशो वरुणो रणोल्वणस्तमन्वियाय त्रिपुरान्तकात्मजम् ॥९॥

 नवेति ॥ रणे युद्ध उल्बण उद्भटो वरुणः प्रचेताः । 'वरुणस्तरुभेदेऽप्सु पश्चिमाशापतावपि' इति मेदिनी । नवो नव्यः । 'नवो नव्ये स्तुतौ' इति मेदिनी। उद्यन्नुदयमानो योऽम्भोधरो मेघस्तद्वद्घोरदर्शने भयानकदर्शने । 'घोरं भीमं

पाठा०-१ नन्विन्द्रनीलाचलचण्डविग्रहम् ; नवेन्द्रनीलोचितचण्ड विग्रहम्. २ शिलोच्चये. ३ स्थितोऽतिमत्ते महिषेऽसुभीषणः; अधिष्ठितः कासरमुद्धतं मुदा. ४ रणोत्सुकः, ५ अभ्यगात्. ६ मदोद्धतः प्रेतवराधिरोहणः; मदोद्धतप्रेतवराधिरूढः. ७ अभ्यगात्. ८ नवोदयाम्भोधरघोरदर्शनः, नवोदयस्तोरणधोरदर्शनम् ; नवोदयास्तोरणघोरदर्शनम्. ९ युद्धेऽधिरूढः; युद्धोपरूढः. १० मकरम्. ११ महातरम्.

१२ रणोल्बणम्.