पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १०-१५]
२९५
संनद्धतया देवगणानां कुमारानुगमनम्

 महाहीति ॥ ततोऽनन्तरं पिनाकिनः पिनाकवन्तो रुद्रा ईशानकोणाधीशाः महाहिभिर्महद्भिः सर्पैः कृत्वा निर्बद्धो यो जटाकलापः सोऽस्ति येषां ते तथोक्ताः अथवा महाहिभिर्निर्बद्वा जटा वा येषाम् । शेषाद्विभाषा' (पा. ५।४।१५४) इति कप् । तथा लापिनः 'इदानीं तारकं जेष्यामः' इत्युद्धतवादिनश्च । ततो विशेषणसमासः । केचित्तु 'जटाभरावराः' इति पाठं कल्पयन्ति । यथास्थितव्याख्याने तु 'न कर्मधारयान्मत्वर्थीयः' इति मत्वर्थीयाप्रसङ्गो दुर्वार इत्यलम् । तथा ज्वलद्दीप्यमानं त्रिशूलमेव प्रबल सबलमायुधं येषाम् । तथा तुषाराद्रेर्हिमवतः सखं सखायम् , तद्दच्छुभ्रमित्यर्थः । महावृषम् । जातावेकवचनम् । अधिरूढाश्च सन्तः । युधे युद्धाय तं कुमारमयुः, अन्वयुरित्यर्थः ॥ १२ ॥

 अन्येऽपि संनाह्य महारणोत्सवश्रद्धालवः स्वर्गिगणास्तमन्वयुः ।
 स्ववाहनानि प्रबलान्यधिष्ठिताः प्रमोदविस्मेरमुखाम्बुजश्रियः॥१३॥

 अन्येऽपीति ॥ अन्येऽप्युक्तातिरिक्ता अपि स्वर्गिगणाः देवगणाः प्रमोदेन रणानन्देन विस्मेरा विशेषेण समन्दहासा मुखाम्बुजश्रीर्येषाम् । अत एव महति रणोत्सवे श्रद्वालवः श्रद्वाशीला अत एव प्रबलानि स्ववाहनान्यधिष्ठिताः । तथा कवचादिना संनह्य संनद्धा भूत्वा तं कुमारमन्वयुः, अनुजग्मुरित्यर्थः ॥ १३ ॥

 अथ युग्मेनाह-

 उद्दण्डहेमध्वजदण्डसंकुलाश्चञ्चद्विचित्रातपवाग्णोज्ज्वलाः ।
 चलद्धनस्यन्दनघोषभीषणाः करीन्द्रघण्टारवचण्डचीत्कृताः ॥१४॥
 स्फुरद्विचित्रायुधकान्तिमण्डलैरुद्द्योतिताशावलयाम्बरान्तराः।
 दिवौकसां सोऽनुवहन्महाचमूः पिनाकपाणेस्तनयस्ततो ययौ॥१५॥

 उद्दण्डेति ॥ स्फुरदिति ॥ ततः सर्वमनहनानन्तरं स पिनाकपाणेहरस्य तनयः कार्तिकेय उद्दण्डा उच्चनालदण्डा ये हेमध्वजाः सुवर्णविकारध्वजास्तेषां दण्डैर्नालदण्डैः संकुला व्याप्ताः, अनेकध्वजदण्डवत्य इत्यर्थः । चञ्चन्ति दीप्यमानानि तथा विचित्राणि हरितपीतादिवर्णयुक्तानि च यान्यातपवारणानि

पाठा०-१महामहोत्सव; महामहोत्सवाः, २ प्रवराणि. ३ चलत्.४ उल्बणाः.

५ घनाघना. ६ चक्रि. ७ कन्दलैः. ८ अम्बरा वराः,