॥
भियेति ॥ मृगा हरिणाः । 'मृगः पशौ कुरङ्गे च' इति मेदिनी । सुराणां देवानामनीकस्य सैन्यस्य । 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी। यो विमर्दः प्राणापहारि मर्दनं तज्जन्मना, ततो जनितयेत्यर्थः । भिया भयेन निमित्तेन द्रुतं सत्वरं दूरतरं विदुद्रुवुः, पलायांचक्रिर इत्यर्थः ।भयशीलत्वादिति भावः । अथ च मृगाधिपाः सिंहा हेलया क्रीडया, सहसैवेत्यर्थः । गुहागृहस्य गह्वररूपस्य सद्मनोऽन्तान्मध्याद्बहिरेत्य । 'अपपरिबहिः - (पा.२।१।१२) इति समासविधानाज्ज्ञापकात्पञ्चमी । नितरां विशङ्कं निर्भयं यथा तथा तस्थुः ॥ २९ ॥
विलोकिता इति ॥ कौतुकिना। सैनिकदर्शने कौतुकाविष्टचेतसेत्यर्थः । जुष्टप्रमदेन सेवितकलत्रेण। कलत्रसहितं वर्तमानेनेति फलितोऽर्थः । अमरावतीजनेन सुरेन्द्रनगरीलोकेन दूरतो दूरात् । 'दूरान्तिकार्थेभ्यो द्वितीया च'(पा.२।३।३५) इति पञ्चमी । 'पञ्चम्या:-'(पा. ५।३।७) इति तसिल। विलोकिता दृष्टाः सुसैनिकाः शोभनाः सेनास्थलोकाः कर्तारः सुतरां विस्तृतायाः सुराचलस्य सुमेरोर्या प्रान्तभूस्तस्याः प्रसरं प्रदेशं प्रपेदिरे प्रापुः । सुमेरोरवरुह्याधः प्रापुरिति भावः ॥३०॥
पीतासितेति ॥ अम्बरं नभः कर्तृ । इतस्ततः सर्वत्रेत्यर्थः । भूम्नाबाहुल्येनोत्पतितैरुड्डयितैरत एव सुराचलस्य सुमेरोः प्रान्तेषु स्थितैः । प्रान्तत्वं ह्यूर्ध्वदैशिकमवगन्तव्यम् । तथा पीतानि चासितानि चारक्तानि च सितानि च तैर्धातुरजोभिगैरिकादिधूलीभिर्निमित्तेन । अयत्नेन यत्नाभावेन, अनायासेनेति
यावत् । यो गन्धर्वपुरस्य देवगायननगरस्योदय उत्पत्तिस्तस्य भ्रमं बभार धृतवान् ।