पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
[ सर्गः १५
कुमारसंभवे

 चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं प्र[१]सर्पिणः ।
 दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दाना[२]म्बुधनेषु पङ्कताम् ॥१०॥

 चमूरज इति ॥ अभिसुरं सुरसंमुखं प्रसर्पिणः प्रतिष्ठमानस्य महासुरस्य तारकस्य संबन्धिनीनां चमूनां रजो रेणुः । दिगन्तदन्तिनामैरावतादीनां सितेषु शुभ्रेषु दन्तप्रकाण्डेषु, दन्तरूपासु शाखास्वित्यर्थः। 'प्रकाण्डो न स्त्री विटपे मूलशाखान्तरे तयोः' इति मेदिनी । शुभ्रतां पाण्डुतां दानाम्बुना मदजलेन घनेषु सघनेषु कुम्भेषु मूर्धान्तरेषु, गण्डस्थलेष्विति यावत् । 'कुम्भो राश्यन्तरे हस्तिमूर्धान्ते राक्षसान्तरे' इति मेदिनी । पङ्कतां कर्दमताम् । 'पकोऽस्त्री कर्दमे पापे' इति मेदिनी । प्राप । धवलिमाश्रयीभूतसंबन्धेन युक्तं हि धवलत्वमिति भावः । अन्यत्स्फुटम् ॥ १० ॥

 महीभृतां कन्दरदारणोल्बणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
 [३]द्वेलिताश्रुक्षुभिरे महार्णवा नभःस्रवन्ती सहसाभ्य[४]वर्धत ॥ ११ ॥

 महीभृतामिति ॥ महीभृतां पर्वतानां संबन्धिनो ये कन्दरा दर्यः । 'दरी तु कन्दरो वा स्त्री' इत्यमरः । तेषां दारणे स्फोटन उल्बणैरुद्भटैः, आत्मव्याप्तिवशात्स्फोटद्भिरिव भासमानैरित्यर्थः । तथा घनैर्दृढैः, कठोरैरिति यावत् । 'धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनायेषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे दृढे च' इति मेदिनी । तद्वाहिनीनां तारकसेनानां संबन्धिनो ये पटहा आनकाः । 'पटहो ना समारम्भ आनके पुंनपुंसकम्' इति मेदिनी । तेषां स्वनैः कर्तृभिः । उद्वेलिता वेलामतिक्रामिता महार्णवा महान्तः समुद्राश्चक्षुभिरे संचेलुः, पटहध्वनिजनितभयादिति भावः । तथा नभःस्रवन्त्याकाशगङ्गा च सहसाऽकस्सादभ्यवर्धत, अतिवेला बभूवेत्यर्थः ॥ ११ ॥

 सुरारिनाथस्य महाचमूखनैर्विगाह्यमाना तुमुलैः सुरापगा ।
 अभ्युच्छ्रि[५]तैरूर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेत[६]नावलीम् ॥१२॥


  1. प्रसर्पतः
  2. दानाम्बुधरेषु.
  3. उद्वेजिताः.
  4. व्यवर्धत.
  5. ऊर्मिशतैरवारितैः.
  6. निकेतनावलीः.