पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २७-३१]
३२१
महोत्पातवर्णनम्

निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रै[१]रभि मौलिमाकुलै[२]र्भविष्यदेतन्मरणोपदेशिभिः ॥२९॥

 निवार्यमाणैरिति ॥ भविष्यत एतस्य तारकस्य मरणमुपदिशन्ति बोधयन्ति तथाभूतैः तथाऽऽकुलैर्भक्षणक्रियासंभ्रमितैर्गंधैः पक्षिविशेषैः । 'गृध्रः खगान्तरे गृध्री वाच्यवच्चाथ लुब्धके' इति विश्वः । अभितः सर्वतोऽनुयायिभिर नुगच्छद्भिः । अत एवोत्प्रेक्षते-मुहुर्मुहुरनेकवेलं निवार्यमाणैरपि तं ग्रहीतुकामैरिव मौलिं किरीटमभि संमुखमपाति पतितम् । भावे लुङ् । पुनःपुनर्निवार्यमाणा अपि तद्बुभुक्षया मौलिमुद्दिश्यैव पेतुरिति भावः । अयमपि महोत्पातः ॥ २९ ॥

सद्योनिकृत्ताञ्जनसोद[३]रद्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषोल्का[४]नलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमक्षत ॥३०॥

 सद्य इति ॥ जनो लोकस्तस्य तारकस्य ध्वजे, तदुपरीत्यर्थः । सद्योनिकृत्तस्य तत्कालपातितस्याञ्जनस्य कज्जलस्य सोदरा समाना धुतिः शोभा यस्य, अञ्जनसदृशश्यामलमित्यर्थः । तथा फणामणिभिः फणारत्नैः प्रज्वलदधिकीभवदंशुमण्डलं यस्य । निर्यद्विपमेचोल्कानलः स गर्भे मध्ये येषां तादृशानि फूत्कृतानि यस्य तथाभूतं महाहिं महान्तं सर्पमैक्षत ददर्श । अयमपि महोत्पातः ॥ ३० ॥

[५]थाश्वकेशावलिकर्णचा[६]मरं ददाह बाणासनबाण[७]वाणधीन् ।
[८]काण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दनधु[९]र्यगोचरः ॥३१ ।।

 रथेति ॥ अकाण्डतोऽसमये । सार्वविभक्तिकस्तसिल् । तस्य तारकस्य संबन्धी योऽतनुस्यन्दनो महान्रथस्तस्य धुर्योऽग्रभागस्तस्य गोचरः, तल्लम इत्यर्थः । चण्डतरोऽतिशयप्रचण्डो हुताशनोऽग्निः । रथाश्वसंबन्धिनी या केशावलिः कर्णचामराणि च तेषां समाहारस्तत् । प्राण्यङ्गत्वादेकवद्भावः । तथा बाणासनं बाणक्षेपक्रियासाधनम् । करणे ल्युट् । धनुर्बाणाः बाणधिस्तूणीरश्चेत्येतानित्यर्थः । ददाह । अयमपि महोत्पातः ॥३१॥


  २१ कु० सं०


  1. अभिमौलि चाकुलैः
  2. तस्यातनुच्छायमपायदर्शिभिः
  3. सोदरं क्वचित्
  4. उल्काततगर्भ
  5. रथस्य
  6. चामरात्
  7. बालबालधीन्
  8. अखण्डेन
  9. धूयुगोद्गतः