किमिति ॥ रे व्योमचराः !। रे इति नीचसंबोधने । महासुरा महान्तः सुरा यूयं स्मरारिसूनोः कुमारस्य प्रतिपक्षे कोटौ वर्तन्ते तथाभूताः सन्तः किं ब्रूथ वदथ ? नेदं वाच्यमिति ध्वनिः । ननु वादे त्वया किं कृतमित्याह--सा पूर्वतरा मदीयानां बाणानां संबन्धिनां व्रणानां रन्ध्राणां वेदना पीडाऽधुना हीदानीमेव कथं केन प्रकारेण विस्मृतिगोचरीकृता विस्मरणविषयीकृता ? अपि त्विदानीमपि सैव स्मर्तव्या, अग्रे भोक्ष्यमाणत्वात् ॥ ४० ॥
कटुस्वरैरिति ॥ भो देवाः ! यूयमम्बरस्थिता आकाशवर्तिनः सन्तः षड्दिनजातकस्य षड्दिनजन्मनः शिशोर्बालस्य बलाद्वीर्याद्धेतोः कार्तिके बहुले मासि प्रमत्ता उन्मत्ताः श्वान इव निशि वनान्ते वनमध्ये मृगधूर्तका मृगा एव धूर्तकास्त इव किं प्रालपथ प्रलापं कुरुथ ? अपि तु मदपेक्षया निर्वीर्यैर्भवद्भिः प्रलापो न विधेय इति भावः ॥ ४१ ॥
सङ्गेनेति ॥ भो देवाः ! वो युष्माकं सङ्गेन संबन्धेन निमित्तेन वराकोऽतिकृपणत्वाच्छोचनीयः । 'वराकः शंकरे पुंसि शोचनीयेऽभिधेयवत्' इति मेदिनी । एष पुरोवर्ती गर्भतपस्विनः । अत्र 'गर्भ'शब्देन गर्भत्वं तदस्यास्तीति गर्भः । अर्शआद्यच् । ततो गर्भत्ववानिति निष्पन्नम् । गर्भत्वं चात्र बालत्वम् । 'गर्भो भ्रूणेऽर्भके कुक्षौ' इति मेदिनी । एवं च बाल इति निष्कर्षः । स चासौ तपस्वी च । बालत्वेऽपि तपस्वित्वकथनाद्वार्धक्ये त्वर्थात्सिद्धम् । एवं च बालत्वमारभ्य तपस्वित्वेन निष्किंचनस्येति तात्पर्यार्थः । अथवा गर्भत्वादिति ल्यब्द्योतनिका या पञ्चमी तदन्तेन 'तपस्वि'शब्दस्य समासो विधेयः, गर्भत्वं बालत्वमारभ्य तपस्वीत्यर्थः । तथाभूतस्य शिवस्य शिशुर्बालः कुमारः । तस्करसङ्गतश्चौरसङ्गेनातस्करो
यथा चौर इव ध्रुवं निश्चयेनान्तं मरणमवाप्स्यति प्राप्स्यति । तत्तस्माद्वो