रुषा मिथो मिलद्दन्तिदन्तसंघर्षजोऽनलः ।
योधाञ्शस्त्रहृतप्राणानदहत्संहसारिभिः ॥ ३२ ॥
रुषेति ॥ रुषा क्रोधेन मिथोऽन्योन्यं मिलतां दन्तिनां ये दन्तास्तेषां संघर्षाज्जातोऽनलोऽग्निररिभिर्वैरिभिः शस्त्रैर्हताः प्राणा येषां तान्योधान् सहसाऽकस्माददहत्पुप्लोष ॥ ३२ ॥
आक्षिप्ता अपि दन्तीन्द्रः कोपनैः पत्तयः परम् ।
तदसूनहरन् खड्गघातः स्वस्य पुरः प्रभोः ॥ ३३ ॥
आक्षिप्ता इति ॥ परमतिशयितं कोपनैः क्रुद्वैर्दन्तीन्द्रैराक्षिप्ता अपि, आक्षेप्तुं शुण्डेन गृहीता अपीत्यर्थः । पत्तयः पादचारिणः स्वस्य प्रभोः पुरः खड्गघातैस्तदसून् दन्तीन्द्रप्राणानहरञ्जगृहुः ॥ ३३ ॥
उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि ।
प्रापि जीवात्मभिर्दिव्यां गतिर्वा विग्रहैर्मही ॥ ३४ ॥
उत्क्षिप्येति ॥ करिभिरुत्क्षिप्योत्थाप्य दिवि दूरान्मुक्तानां योधिनां जीवात्मभिर्जीवैः, प्राणैरिति यावत् । दिव्या स्वर्गीया गतिः प्रापि । विग्रहैर्देहैर्मही वा प्रापि प्राप्ता । कर्मणि लुङ्॥ ३४ ॥
खङ्गैर्धवलधारालैर्निहत्य करिणां करान् ।
तैर्भुवापि समं विद्वान्संतोषं न भटा ययुः ॥ ३५ ॥
खङ्गैरिति ॥ भटा योधा धवलधारालैर्धवलां धारां लान्ति गृह्णन्ति तैः, शुभ्रधारैरित्यर्थः । अद्वितीयैः खड्गैः कृत्वा भुवा पृथिव्या समं विद्धान्प्रहृतान्करिणां कराञ्शुण्डादण्डान्निहत्यापि लवित्वापि संतोषं तृप्तिं न ययुः, अन्यानपि निहन्मीति बुद्धिमन्तो बभूवुरित्यर्थः ॥ ३५ ॥
पाठा०-१ गजारूढान्. २ सह सादिभिः. ३ उत्क्षिप्ता. ४ हस्तीन्द्रः, ५ करैः. ६ ते रिपूनहनन् ; तद्रिपूनहरन्, ७ खड्गपातैः. ८ दूरम्. ९ दिवः. १० दिव्याङ्गनाकण्ठपरिग्रहः; दिव्याङ्गनैषां विग्रहैर्मही. ११ यैर्भुवा. १२ वृद्धं शस्त्र्या
तान्पत्तयोऽहरन्.