पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४०७

पुटमेतत् सुपुष्टितम्
श्लो० ३०-३३]
३६१
वायव्यास्त्रेण सुरसैन्यपीडनम्

  तेनाहतास्त्रिदशसैन्यपदातयोऽपि
   स्रस्तायुधाः सुविधुराः परुषं रसन्तः ।
  वात्यावि[१]वर्तदलवद्भ्रममेत्य दूरं
   निःपेतुरम्बरतलाद्वसुधातलेऽस्मिन्[२] ॥ ३२ ॥

 तेनेति ॥ तेन प्रभञ्जनेनाहताः पीडिताः । अत एव सस्तान्यधःपतितान्यायुधानि शस्त्राणि येषाम् । अत एव सुतरां विधुरा दुःखिताः । करेभ्यः शस्त्रगलनं वीराणामतिदुःखावहं भवतीति भावः । तथा परुषं कठोरं यथा स्यात्तथा रसन्तः क्रोशन्तः, रुदन्त इति यावत् । त्रिदशसैन्यपदातयोऽपि देवसैन्यपादचारिणो योधा अपि । पूर्वोक्तानां गजादीनामपेक्षया समुच्चयार्थकोऽपिशब्दः । 'अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये' इति विश्वः । वात्यया वातसमूहेन विवर्तं भ्रान्तं यद्दलं पत्रं तद्वद्दूरमतिशयेन भ्रमं भ्रान्तिमेत्य प्राप्याम्बरतलादाकाशमध्यादस्मिन्वसुधातले भूतले निःपेतुः । वातसमूहविवर्तिनानि वृक्षशुष्कपत्राणि यथाधः पतन्ति, तथा देवसैन्यपत्तयोऽपि वायव्यास्त्रजनितप्रभञ्जनवशादम्बरमभित उड्डीयमानाः कियन्तमपि कालं तत्र रथचक्रवत्परिभ्रम्य प्रतिक्षीणभ्रमणजवाः सन्तोऽधः पेतुरिति वाच्यार्थः । यथा पतितमपि दलं न चूर्णीभवति, तथाधः पतन्तोऽपि सैनिका न चूर्णीभूता इत्यभिहितयोपमया व्यज्यते । सति पतनेऽपि चूर्णत्वाभावे दैवत्वादिति गूढो हेतुः । अतोऽलंकारेण वस्तुध्वनिः ॥ ३२ ॥

  इत्थं विलोक्य सुरसैन्यम[३]थो अशेषं
   दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् ।
  स्वर्लोकनाथकम[४]लाकुशलैकहेतु-
   र्दिव्यं प्रभावमतनोदत[५]नुः स देवः ॥ ३३ ॥

 इत्थमिति ॥ अथो तारकप्रयोजितवायव्यास्त्रकृतसैन्यविप्लवानन्तरम् । अतनुर्महान् । महत्त्वं च विद्यया, विद्या चास्त्रशस्त्रनैपुण्यम् । स देवः षाण्मातुरः । अशेषं सकलं सुरसैन्यं देवसैन्यं कर्म दैत्येश्वरेण तारकेणेत्थं पूर्वोक्तप्रकारेणास्त्रयो

  1. वात्याविधूतदलवद्भ्रमम्; वायोर्द्विवृन्तदलवृन्दमिव.
  2. अपि; ते.
  3. अशेषमेव.
  4. कमलाकलनैकहेतुम्; कमलाकुशलैकहेतुम्.
  5. अतनुम्.