पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७६
[ सर्गः ८
कुमारसंभवे

मुच्छ्वसितमं स्रस्तं नीविबन्धनं नीविग्रन्थिर्यस्य तत्तथाभूतमभवत्, रतिपारवश्या- दिति भावः ॥ ४ ॥

 एवमालि ! निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
 सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥५॥

 एवमिति ॥ हे आलि सखि पार्वति ! रहसि शंकरः । एवम् , स्वोपदिष्टप्रका- रेणेत्यर्थः । निगृहीतसाध्वसं निरस्तभयं यथा तथा सेव्यतामिति सखीभिरुपदिष्ट- मुक्तं वचनं सा पार्वती प्रिये शंकरे प्रमुग्ववर्तिनि सत्याकुला साध्वसविह्वला सती नास्मरत, न स्मृतवतीत्यर्थः । स हि भयपरिप्लुते चेतसि दृष्टतरोऽप्युपदेशः संस्कारमाधत्त इति भावः ॥ ५ ॥

 अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
 वीक्षितेन परिगृह्य पार्वती मृर्धकम्पमयमुत्तरं ददौ ॥६॥

 अपीति ॥ कथाप्रवृत्तये संलापप्रवर्तनायावस्तुन्यप्रस्तुतार्थेऽपि प्रश्नतत्परम् , यत्किंचित्पृच्छन्तमित्यर्थः । अनङ्गशासनमीश्वरं पार्वती वीक्षितेन, न तु वाचेत्यर्थः

। परिगृह्याङ्गीकृत्य मूर्धकम्पमयं शिरःकम्पस्वरूपम् । स्वार्थे मयट् । उत्तरं

ददौ । न तु वाङ्मयं, साध्वसादिति भावः । विहृतनामा लजानुभाव उक्तः । तदुक्तं रतिरहस्ये—'ईर्ष्यामानातिलजाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ॥' इति ॥ ६ ॥

 शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
 तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ ७ ॥

 शूलिन इति ॥ सा पार्वती रहसि हृतांशुका प्रियेणाकृष्टवस्त्रा सती करतल- द्वयेन, स्वकीयेनेत्यर्थः । शूलिनो हरस्य नयने नेत्रद्वयं संनिरुध्य संच्छाद्य तस्य शूलिनो ललाटलोचने तृतीयेऽक्षिण पश्यति सति मोघयत्नाऽफलाखिलप्रयासाऽत एव विधुराभूत् , तृतीयकराभावादिति भावः । एतेन किंचिद्धाष्टर्यादयो ग्यज्यन्ते ॥ ७ ॥

 चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहने ।
 क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ ८॥