पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/४२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १७-२२]
३८१
हिमवदनुमतशिवस्य विहारः

नात्सुखेऽपि दुःखवदुपचारात्कुट्टिमनामानुभाव उक्तः । तदुक्तम्- 'केशाधरादि- ग्रहणे मोदमानापि मानसे । दुःखितेव बहिः कुप्येत्तत्कुट्टिममुदाहृतम् ॥' इति ॥१८॥

 चुम्बनादलकचूर्णदूपितं शंकरोऽपि नयनं ललाटजम् ।
 उच्छ्व्सत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ १९ ॥

 चुम्बनादिति ॥ अथ शंकरोऽपि चुम्बनाचुम्बनार्थिनोऽलकचूर्णेन दूषितमुप- हतं ललाटजं नयनमुच्छ्वसत्कमलगन्धये विकचारविन्दगन्धधारिणे । 'उपमानाच' (पा. ५।४।१३७ ) इनीकारः । पार्वत्या वदनगन्धवाहिने, फूत्कारमारुतायेत्यर्थः । ददौ, रजोनिःसारणार्थ तदाभिमुख्येन स्थापितवानित्यर्थः । एतेन देव्याः प्रिय- चशंवदत्वमुक्तम् । अत्र हरचक्षुष्यलकचूर्णकथनाद्देच्या उपरिभावः सूचितः ॥ १९ ॥

 एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः ।
 शैलराजभवने सहोमया मासमात्रमवसद्वृषध्वजः ॥ २० ॥

 एवमिति ॥ वृषध्वजो हर एवमुक्तरीत्येन्द्रियाणां सुखस्यानुकूलस्य वर्त्मनो मार्गस्य, स्त्रीप्रसङ्गस्येत्यर्थः । सेवनात्परिभोगादनुगृहीतमन्मथः पुनरुज्जीवित- मदनः सन् । वृषध्वजः उमया सह शैलराजभवने हिमवद्गेहे मासमात्रमवसत् । अत्यन्तसंयोगे द्वितीया। मासमात्रमिति वधूवशीकरणकालक्लुप्ति: प्रदर्शिता ॥२०॥

 सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखपीडितम् ।
 तत्र तत्र विजहार संचरन्नप्रमेयगतिना ककुद्मता ॥ २१ ॥

 स इति ॥ स आत्मभूः शिव आत्मजाया दुहितुर्विरहदुःखेन पीडितं हिम- वन्तमनुमान्यानुमतं कृत्वाऽप्रमेयगतिनाऽपरिच्छेद्यगतिना ककुद्मता वृषेण संचर- न्संचरमाणस्तत्र तत्र नानादेशेषु विजहार ॥ २१ ॥

 मेरुमेत्य मरुदाशुवाहनः पार्वतीस्तनपुरस्कृतः कृती ।
 हेमपल्लवविभङ्गसंस्तरामन्वभूत्सुरततत्परः क्षपाम् ॥ २२ ॥

 मेरुमिति ॥ मरुदाशुवाहनः पवनजवनवाहनः पार्वतीस्तनाभ्यां पुरस्कृतः, पार्वतीपुरोगतयाश्लिष्ट इत्यर्थः । अन्वभूदित्यनेनान्वयः। कृती कुशलो हरो मेरुमेत्य हेमपल्लवानां विभङ्गाः खण्डास्त एव संस्तरस्तल्पं यस्यां तां तथोक्तां क्षपां रात्रिं

सुरततत्परः सुरतासक्त: सन् । अन्वभूत् ।। २२ ॥