पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४-७]
हिमालयवर्णनम्

 आमेखलमिति ॥ सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः' इत्यमरः। आ मेखलाभ्य आमेखलं नितम्बपर्यन्तम् । 'मेखला खड्गबन्धे स्यात्काचीशैलनितम्बयोः' इति विश्वः । 'आङ् मर्यादाभिविध्योः' (पा.२।१।१३) इत्यव्ययीभावः। संचरतां धनानां मेघा- नामधःसानूनि मेघमण्डलादधस्तटानि गतां प्राप्ताम् । 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः' (पा. २।१।२४) इति समासः। छायामनातपम्। 'छाया सूर्य- प्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । निषेव्य वृष्टिभिरुद्वेजिताः क्लेशिताः सन्तः । 'उद्वेगः स्तिमिते क्लेशे भये मन्थरगामिनि' इति शब्दार्णवः । यस्य हिमाद्रेरातपवन्ति सातपानि शृङ्गाण्याश्रयन्ते, आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौनत्यमिति भावः ॥ ५ ॥

पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥६॥

 पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्रुतिभिर्हिमनिस्यन्दैधौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् । अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्धैर्नखद्रोणि- भिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानन्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । 'करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि' (गरुड. ६९।१) इति ॥ ६ ॥

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥७॥

 न्यस्ताक्षरा इति । यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव


पाठा०‌-१ विन्दन्ति|


टिप्प-1 'अणिमा महिमा चैव लघिमा गरिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः' इत्यष्टसिद्धियुक्ताः । सिमलक्षणं चोक्तम्-'अवाप्ताष्टगुणैश्वर्याः सिद्धाः सद्भिरुदाहृताः । तेषां कुलेऽपि ये जातास्तेऽपि सिद्धाः प्रकीर्तिताः' इति ।