पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८-१२]
हिमालयवर्णनम्

सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते। तथा च गजायुर्वेदे- 'हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः' इति ॥ ९॥

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥१०॥

 वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि| 'अग्नावोषधिषु च तेजो निधाय रविरस्तं याति' इत्यागमः । वनितानां सखायो वनितासखाः । 'राजाहःसखिभ्यष्टच्' (पा.५।४।९१) । तेषाम् , रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः। 'चरेष्टः' (पा.३।२।१६) इति टप्रत्ययः । तत्पुरुषे कृति बहुलम्' (पा. ६।३।१४) इत्यलुक् । तेषां वनेचराणाम् । अतैलपूराः, अनपेक्षिततेलसेका इत्यर्थः । सुरते सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीप्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतसुरतोपयोगित्वात्परिणामालंकारः । तदुक्तम् -'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' (अलं. १६) इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्योत्पत्तिलक्षणा विभावना चेत्युभयोः संसृष्टिः ॥ १० ॥

उद्वेजयत्यङ्गुलिपार्णिभागान्मार्गे शिलीभृतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥११॥

 उद्वेजयतीति ॥ यत्र हिमाद्रौ, शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान्प्रदेशानुद्वेजयत्यतिशैत्यात्लेशयत्यपि मार्गे । श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धरेण श्रोणिपयोधरेणार्ताः पीडिताः।आइपूर्वादृच्छतेः क्तः। 'उपसर्गारति धातौ' (पा.६।११९१) इति वृद्धिः। अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किंनरस्त्रियः । उष्ट्रमुखवत्स- मासः । 'स्यात्किनरः किंपुरुषस्तुरंगवदनो मयुः' इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति, न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ॥११॥

दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैःशिरसां सतीव ॥१२॥

दिवाकरादिति ॥ यो हिमाद्विर्दिवा दिवसे भीतं भयाविष्टमिव । उलृक-

पाठा०-१ अतीव.