पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १८-२२]
११
हिमवन्मेनापरिणयः, मैनाकोत्पत्तिश्च

अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति-पक्षच्छिदि पक्षच्छेत्तरि । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना विप्प्रत्ययः । वृत्रशत्रौ क्रुद्ध कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम् । संबन्धसामान्ये षष्ठी। जाना- तीति ज्ञः । 'इगुपधज्ञा-' (पा.३।१।१३५) इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । 'आतोऽनुपसर्गे कः' (पा.३।२।३) इति कप्रत्ययः । 'उपपदमतिङ्' (पा.२।२।१९) इति समासः। स न भवतीत्यवेदनाज्ञस्तम् , कुलिश- क्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यत- शक्रात्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । 'पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ॥' इत्यभ्रातृककन्यापरिणय. निषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकवर्णनमिति तात्पर्यार्थः ॥२०॥

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधू प्रपेदे ।। २१ ॥

 अथेति ॥ अथ मैनाकजननानन्तरं दक्षस्य प्रजापतः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता। 'सती साध्वी पतिव्रता' इत्यमरः । सती नाम देवी। पितुर्दक्षस्य । कर्तरि षष्ठी। अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनका प्रपेदे । अत्र पुरा किल सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रसूं चोपेक्ष्य मत्कर्तव्यकार्य त्वजामातैव करिष्यतीति निर्धाय देवकार्याणि साधयितुं च योगाग्निना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया ॥२१॥

सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् ।। २२ ।।

 सेति ॥ भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता समाधिमत्यां


पाठा०-१अपमानेन|


टिप्प०-1 पर्वतानां पक्षच्छेदश्चोक्त:-सर्वेऽपि पर्वताः पूर्वं पक्षवन्तः किला- भवन् । ततस्तेषामवस्थानैर्वेगैः पक्षसमीरणैः। चूर्णीभूताञ्जनपदानवलोक्याथ वृत्रहा। क्रुद्धः कुलिशमादाय पक्षच्छेदेन पर्वतान् । क्षणेन स्थावरीचक्रे' इत्यादिना ।