पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३४-३७]
१७
नवयौवनसंपन्नायाः पार्वत्या अवयववर्णनम्

तेऽनुपूर्वे च वृत्तानुपूर्वे । नातिदीर्घे च । महाविभाषया न समासः। नञो विशेषणत्वं 'च'शब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । 'जङ्घा तु प्रसृता' इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्रष्टुः शेषाङ्गनिर्माणविधौ, - जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनःसंपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षण तूक्तम् । यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां च लावण्योपादानकत्वात् पूर्वसंपादितस्य च जङ्घार्थमेव कार्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये तज्ज्ङ्घे इति भावः । आसेति बभूवार्थे ‘तिङन्तप्रतिरूपकमव्ययम्' इत्याह शाकटायनः । वल्लभस्तु-"न तिङन्तप्रतिरूपकमव्ययम् , 'अस्तेर्भूः' (पा.२।४।५२) इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् , किंतु कवीनामयं प्रामादिकः प्रयोगः” इत्याह । वामनस्तु (काव्या. सू. ५।२।२७)-- 'अस गतिदील्यादाने- ष्विति धातोलिटि रूपमिदम्' इत्याह । अस इत्यनुदात्तेतू(?) दीप्त्यर्थे । आस दिदीपे, प्रवृत्त इत्यर्थः ॥ ३५ ॥

नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥३६॥

 नागेन्द्रेति ॥ नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात् कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । 'परिणाहो विशालता' इत्यमरः । रूपं लब्ध्वापि । 'अपि'शब्दात् करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुप- मानबाह्या जाता उपमानक्रियानर्हा बभूवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्य- मिति भावः ॥३६॥

एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः।
आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥ ३७॥.

 एतावतेति ॥ अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बम् , एतावता नन्वेतावतैव । 'प्रश्नावधारणानुज्ञानुनयामत्रणे ननु' इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्स्वप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । 'त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः' इत्याह वामनः । पश्चादादौ नैःस्पृशेऽपि पश्चात् , तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः


पाठा०-१ कान्ति. २ कु. सं.