पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
[ सर्गः १
कुमारसंभवे

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥४२॥

 कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । 'वर्तुलं निस्तलं वृत्तं बन्धुरं तूम्नतानतम्' । 'कलापो भूषणे बर्हे तूणीरे संहतावपि' इति चामरः । अन्योन्यशोभाजननाद्भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव, उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवनुरित्यर्थः । अत्र कण्ठमुक्ता- कलापयोः शोभाक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम् ( अलं. स.)-'परस्परं क्रियाजननमन्योन्यम्' इति ॥ ४२ ॥

 इदानीं पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वचोभङ्याह-

चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥४३।।

 चन्द्रमिति ॥ लोला चपला, परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्राप्ता सती पद्मगुणान्सौगन्ध्यादीन्न भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । 'अभिख्या नाम शोभयोः' इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्ते; उमामुखं प्रतिपद्य तु द्वे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप, तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमयस्योमामुखस्याधिकगुणवत्त्वोक्त्या व्यतिरेकालंकारः । तदुक्तम् ( अलं. स.)-- 'भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः' इति ॥ ४३ ॥

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥४४॥

 पुष्पमिति ॥ पुष्पं पुण्डरीकादिकं प्रवाले बालपल्लवे उपहितं निहितं स्याद्यदि, 'प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे' इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले विद्रुमे तिष्ठनीति स्फुटविद्रुमस्थं स्याद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः


पाठा०-१ ताम्रोष्ठ.