पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[ सर्गः १
कुमारसंभवे

तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितम् । आयताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु ? अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु ? अत्र विवक्षितस्य परस्परग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ॥ ४६ ॥

तस्याः शलाकाञ्जननिर्मितेव कान्तिभ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥४७॥

 तस्या इति ॥ आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितेव स्थिता या कान्तिीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः ॥४७॥

लजा तिरश्वां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः॥४८॥

 लज्जेति॥ तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि। संशयाभावोऽसंशयम्, संदेहो नाम्नीत्यर्थः। पर्वतराजपुत्र्याः । 'शार्ङरवाद्यञो डीन्' (पा. ४१११७३) इति ङीन् । तं प्रसिद्ध केशपाशं केशवकलापम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषा बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् , प्रियबालत्वमित्यर्थः । आहितान्यादिपाठाद्वा परनिपातः । 'त्वतलोर्गुणवचनस्य' (वा० ३९२७) इति पुंवद्भावः । शिथिलं कुर्युः, निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलंकारः। तदुक्तम्- 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ॥ ४८ ॥

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेश विनिवेशितेन ।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ।। ४९ ॥

 सर्वोपमेति ॥ किंबहुना सा पार्वती विश्वसृजा विधात्रा। एकत्र तिष्ठती-


पाठा०-१ लोलाम्. २ ताटङ्कपत्रं विरराज तस्याः शैलात्मजायाः श्रवणद्वयस्थम् । मत्वा भवित्रीं मदनारिपनी सेवासमेताविव पुष्पवन्तौ ॥ (१ युग्मम्.

२ पुष्पदन्तौ.)