पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४७-५२]
२३
पार्वती हरपत्नी भवित्रीति नारदकथनम्

त्येकस्थं, तस्य सौन्दर्यस्य सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव प्रयत्नाद्यथाप्रदेश क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाधुपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । 'दिदृक्षयेव' इति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति ॥ ४९॥

तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ ५० ॥

तामिति ॥ कामेनेच्छया चरतीति कामचरो नारदः। कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल, प्रेम्णा न त्वन्यथा, हरस्य शिवस्यार्धं हरतीत्यर्धहरा । 'हरतेरनुद्यमनेऽच्' (पा.३।२।९) इत्यच्प्रत्ययः । शरीरस्यार्धहरां शरीरार्धहराम् । कुलधुरंधरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वात् 'अर्धं नपुंसकम्' (पा. २।२।२ ) इत्यशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । 'पूर्वकाल-' (पा. २।११४९ ) इत्यादिना समासः। भवित्रीं भाविनीं समादिदेश, हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्या- दिष्टवानित्यर्थः ॥ ५० ॥

गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥५१॥

 गुरुरिति ॥ गुरुः पिता । 'गुरू गीष्पतिपित्राद्यौ' इत्यमरः । अतो नारदवच- नावेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । 'वरो ना रूपजामात्रोः' इति वैज- यन्ती। तस्थौ, वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निर्बन्ध इत्यत आह-ऋत इति । तथा हि-मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकाहते कृशानुं विना । 'अन्यारादितरते-' (पा.२।३।२९) इत्यादिना पञ्चमी । अपराणि तेजांसि सुवर्णादीनि नार्हन्ति, न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः ॥५१॥

 तर्हि तमेवाहूय दीयतामित्याशङ्कयाह-

अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥५२॥


पाठा०-१ एकवधूः. २ अन्यतर.