पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५७-६०]
२७
शिवेन पार्वतीपरिचर्याङ्गीकरणम्

समासः । श्रोतुमिच्छन्ती शुश्रूषमाणां सेवमानाम् । सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः । 'ज्ञाश्रुस्मृदृशां सनः' (पा. ११३।५७) इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार, न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह-विकारेति। विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रियन्ते न विकृति नीयन्ते, त एव धीराः। विक्रियन्ते इति कर्मणि लट् ॥ ५९॥

 शुश्रूषाप्रकारमेवाह-

  अवचितबलिपुष्पा वेदिसंमार्गदक्षा
   नियमविधिजलानां बर्हिषां चोपनेत्री।
  गिरिशमुपचचार प्रत्यहं सा सुकेशी
   नियमितपरिखेदा तच्छिरश्चन्द्रपादः॥६॥

 अवचितेति ॥ सुकंशी शोभनमूर्धजा । 'स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' (पा.४।१।५४) इति ङीप् । सा पार्वती । अवचितानि लृनानि बलिपुष्पाणि पूजाकुसुमानि यया सा। वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा । नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपनेत्र्यानेत्री सती। तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः। 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः। नियमितपरिखेदा निवर्तितपरिश्रमा सती। अहन्यहनि प्रत्यहम् । 'अव्ययं विभक्तिसमीपसमृद्धि-' (पा.२।१।६) इत्यादिना नियतार्थेऽव्ययीभावः। 'नपुंसकादन्यतरस्याम्' (पा.५।४।१०९) इति टच्प्रत्ययः। गिरिशमुपचचार शुश्रूषांचके ॥ ६॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य
उमोत्पत्तिर्नाम प्रथमः सर्गः।