पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
[ सर्गः २
कुमारसंभवे

संभारे संग्रहे तत्पराः, आसक्ताः सन्त इत्यर्थः । 'तत्परे प्रसितासक्तौ' इत्यमरः । उद्यानपालैरुधानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकमुपासते सेवन्ते, शीतोष्णादिदोषप्रकाशनं तु दुरापास्तमित्यर्थः ॥ ३६ ॥

  तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
  कथमप्यम्भसामन्तराऽऽनिष्पत्तेः प्रतीक्षते ॥ ३७॥

 तस्येति ।। सरितां पतिः समुद्रस्तस्य तारकस्योपायनानां प्राभृतानां योग्यानि । 'प्राभृतं तु प्रदेशनम् । उपायनम्' इत्यमरः । रत्नान्यम्भसामन्तः आनिष्पत्तेः परिपाकपर्यन्तम् । विकल्पादसमासः । कथमपि महता यत्नेन प्रतीक्षते, कदा वा परिपच्येरन्नित्यैकाग्र्येण पालयतीत्यर्थः ।। ३७ ॥

  ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
  स्थिरप्रदीपतामेत्य भुजंगाः पर्युपासते ।। ३८ ॥

 ज्वलदिति ॥ किंचेति चार्थः । ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा ज्वाला येषां ते वासुकिप्रमुखा भुजंगाः सर्पाः सिद्धाश्च ध्वन्यन्ते । 'भुजंगः षिङ्गसर्पयोः' इत्यमरः । निशि स्थिरप्रदीपतामनिर्वाणदीपत्वमेत्यैनं तारकं पर्युपासते परिवृत्य सेवन्ते ॥ ३८ ॥

  तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः ।
  अनुकूलयतीन्द्रोऽपि कल्पडुमविभूषणैः ।। ३९ ॥

 तत्कृतेति ॥ इन्द्रोऽपि तेन तारकेण कृतं तत्कृतमनुग्रहं प्रसादमपेक्षत इति तथोक्तः सन् । मुहुर्दूतहारितैर्दूतप्रापितैः कल्पद्रुमाणां विभूषणैः, तत्प्रसूनैरि- त्यर्थः । तं तारकमनुकूलयत्यनुकूलं करोति ॥ ३९ ॥

  इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
  शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ ४० ॥

 इत्थमिति ॥ इत्थमुक्तप्रकारेण रविशशिपवनोदधिभुजंगसुरेन्द्रराराध्यमानोऽपि भुवनत्रयं क्लिश्नाति पीडयति । तथा हि-दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् ; उपकारेण तु न शाम्येत् , प्रत्युत प्रकुप्यतीति भावः ॥ १०॥


पाठा०-१ प्रहिताः. २ प्रत्यहम्. ३ खर्गद्रुम. ४ प्रत्युपकारेण.