पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९ पर्यायोक्तालंकारः २९] अलंकारचन्द्रिकासहितः । अन्न यस्य वेदा वाहा भुजङ्गमा भूषणानीत्यादि तद्वाक्यार्थव्यवस्थितौ वे- दत्वाद्याकारणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्याकारेणाभिहिताः परंतु देवतासार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावव्यत्यासेन प्रतिपा- दिताः । अत्रालंकारसर्वस्वकृतापि पर्यायोक्तस्य संप्रदायागतमिदमेष लक्षण- मङ्गीकृतं गम्यस्यापि भयन्तरेणाभिधानं पर्यायोक्तमिति । 'चक्राभिधातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। . . आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमान्नशेषम् ॥ । इति प्राचीनं तदुदाहरणं त्वन्यथा योजितं-राहुवधूगतेन विशिष्टेन रतोत्सवेन राहशिरश्छेदः कारणरूपो गम्यत इति । एवंच गम्यस्यैवाभिधा- नमिति लक्षणस्यानुपपत्तिमाशझ्याह यद्गम्यं तस्यैवामिधानं लक्षणे विवक्षि- तमिति । लक्षणं क्लिष्टगत्या योजितं लोचनकृता 'पर्यायोक्तं यदन्येन प्रकारे- णाभिधीयते' इति । इदमेव लक्षणमङ्गीकृत्य तदुदाहरणे च कार्येण शब्दाभि- हितेन कारणं व्यङ्ग्यं प्रदर्य तत्र लक्षणं लक्ष्य नाम च क्लिष्टगत्या योजितम् । वाच्यादन्येन प्रकारेण व्यङ्गयेनोपलक्षितं सद्यदभिधीयते तत्पर्यायेण प्रकारा- न्तरेण व्यङ्गयेनोपलक्षितमुक्तमिति सवोंऽयं क्लेशः किमर्थ इति न विद्मः । नीयभस्मसंबन्धिलात् । मदनभस्मना शिवेनाङ्गानामनुलेपनस्य पुराणेषु प्रसिद्धेः । अत्र लक्षणं संगमयति-अति ॥ व्यवस्थितौ विवक्षायां सत्याम् । अवगम्या व्यङ्ग्याः॥ विनेयत्वेति ॥ शिक्षणीयत्वेत्यर्थः । आदिना पाताल- गुप्तवादिपरिग्रहः ॥ अभिहिता इति ॥ वाहाद्यधिकृतलादिना व्यासादिप्रति- पत्तौ समानवित्तिवेधत्वेन व्यासादिविनेयत्वादेरपि तेष्वगमादिति भावः । साक्षादेव व्यासादिविनेयवाद्याकारेण किमिति न निर्दिष्य इत्याशयाह- परत्विति ॥ यद्यप्युक्तविशेष्यविशेषणभावेऽपि देवतासार्वभौमलमवगम्यते तथापि स्फुटप्रतिपत्त्यर्थ तद्वैपरीत्यं कृतमित्यर्थः ॥ चक्रेति ॥ यो देवः सुदर्श- नचक्रस्याभिघाते या प्रसभमाज्ञा तयैव राहुवधूजनस्य रतोत्सवमालिङ्गन- स्योद्दामा उद्भटा ये विलासास्तैर्वन्ध्यं रहितं चुम्बनमात्रावशेष. चकारेत्यन्वयः । विशिष्टेनोक्तविशेषणविशिष्टेन । एवंचेदृशोदाहरणयोजने च ॥ अनुपपत्तिमिति॥ गम्यस्य राहुशिरश्छेदस्य भङ्गयन्तरेणानमिधानादव्याप्तिमाशयेत्यर्थः । अभि- धानायोगात् । अयमाशयः । अत्रहि राहुशिरश्छेदकारीति वासुदेव इति वा व्यङ्ग्यं राहुवधूजनसंवन्धितादृशरतोत्सवकारित्वेन प्रकारान्तरेणामिधीयत इति न वक्तुं शक्यम् । धर्मिणो वासुदेवस्य प्रक्रान्तत्वेन यच्छब्दाभिहितत्वेन च व्यङ्ग्यखायोगात् । व्यङ्ग्यस्य च राहुशिरश्छेदकारिखस्य वासुदेवखस्य वा धर्मस्य प्रकारान्तरेणानभिधानात् । तस्मात्पर्यायेण कार्यादिद्वारेणोक्तं गम्यमाक्षिप्तं वेति लक्षणार्थः । अभिधानमाक्षेपो व्यञ्जनं वा ॥ पर्यायोक्तमिति ॥ क्वचित्पर्या- योके इति पाठस्त्वयुक्तः । व्यङ्ग्येनोपलक्षितमुक्तमिति व्याख्यानग्रन्थविरोधात् ॥ नविन इति ॥ यच्छब्दामिहितस्यापि भगवतो वासुदेवखादिना रूपान्तरेण