पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

TREATMENT - . . .... .. ... . . . .. .. -......... may --..- - कुवलयानन्दः । [पर्यायोक्तालंकारः २९ प्रदर्शितानि हि गम्यस्यैव रूपान्तरेणाभिधाने बहून्युदाहरणानि । चक्राभि- घातग्रसभाज्ञयवेति प्राचीनोदाहरणमपि स्वरूपेण गम्यं भगवतो रूपान्तरे- णाभिधानसत्त्वात्सुयोजमेव । यत्तु तत्र राहुशिरश्छेदावगमनं तत्र प्रागुक्त- रीत्या प्रस्तुताकुर एव । प्रस्तुतेन च राहोः शिरोमात्रावशेषेणालिङ्गनयन्ध्य- त्वाधापादनरूपे वाच्ये भगवतो रूपान्तरे उपपादिते तेन भगवतः स्वरूपे- णावगमनं पर्यायोक्तस्य विषयः ॥ ६८॥ पर्यायोक्तं तदप्याहुर्यव्याजेनेष्टसाधनम् । यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह ॥ ६९ ॥ अन नायिका नायकेन सङ्गमथ्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या . तत्स्वाच्छन्द्यसंपादनरूपेष्टसाधनं पर्यायोक्तम् । यथावा-- .. देहि मत्कन्दुकं राधे परिधाननिगूहितम् । . इति विनसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु मः ॥ व्यक्यतया यथाश्रुते बाधकाभावादिति भावः । नचाभिधाविषये कथं व्यानेति वाच्यम् । वासुदेवलादिना प्रतीयमाने भगवत्यभिधाविषयलासंभवात् । तस्याः खावच्छेदकधर्मेणैव बोधकलात् । अतएवोक्तम् 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' इति । इह तु लक्षणाहेखभावाव्यञ्जनोपगम्यत इति । ननु प्रस्तुतेन तादृशरतोत्सवरूपेण कार्येण प्रस्तुतस्यैव राहुशिरश्छेदनरूपकारणस्य प्र- दीतौ चमत्कृतिविशेषस्तस्या अलंकारत्वं गमयति । तचालोच्यमानप्रस्तुतप्रशंसा- या असंभवादुक्तरीत्या पर्यायोक्तरूपतयैव स्वीकर्तव्य मिलाशयाह-यत्त्विति ॥ अलंकाराणामियत्तानियमाभावेन प्रस्तुताङ्करस्याप्यलंकारान्तरलादेवंविधशब्द- खारस्यभङ्गेन प्राचीनलक्षणव्याख्यानमयुक्तमिति भावः। संक्षेपतो दार्शतमपि पर्यायोक्तविषयं विशदयति-प्रस्तुतेनेत्यादिना ॥ यत्तु भगवद्रूपेणावगमनं विशेषणमर्यादालभ्यत्वेन सुन्दर पर्यायोक्तस्य विषय इति तदविचारितरमणीयम्। नहि पर्यायोक्तेर्व्यङ्गयसौन्दर्यकृतो विच्छित्तिविशेषः किंतु भङ्गयन्तराभिधानकृत एव । व्यङ्ग्यं तु भङ्ग्यन्तराभिधानतः सुन्दरमेव प्रायशो दृश्यते। यथा इहागन्त- व्यमिति विवक्षिते व्यङ्गये अर्थ देशोऽलंकरणीयः सफलतामुपनेतव्य इत्यादौ । अ. तस्तदसुन्दरवोद्भावनमकिंचित्करमेव । अलंकारसर्वखकारग्रन्थविरोधोद्भावनं तु तच्छिक्षाकारिणं प्रति न शोभते। उपजीव्यखाद्भावनमपि ग्रन्थस्याकिंचित्करमेव । युक्तिविरोध इति परोत्कर्षासहिष्णुलमात्रमुद्भावयितुरवगमयतीत्यलं विस्तरेण ॥ ६८ ॥ प्रकारान्तरेण पर्यायोक्तं लक्षयति-पर्यायोक्तमिति ॥ रमणीयेन व्याजेन मित्रेण वस्य परस्य वा इष्टस्य यत्साधन संपादनं तदपि पर्यायोकम् । पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेः ॥ संपादनेति ॥ संपादनरूपं यदिष्टं तत्साधनं तत्करणमित्यर्थः ॥ देहीति ॥ परिधानेनाधरवस्त्रेण निगूहितमाच्छा- दिमित्यर्थः। एवंच प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणं बोध्यम् ॥६९॥ .. इति पर्यायोक्तप्रकरणम् ।२९॥ -- - -Varma--- - riamiriow a ": .. -M .-.- - - "-.-.".-' re re ma o - m Camerasanee