पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषमालंकारः ३८] अलंकारचन्द्रिकासहितः। १०९ __ अनाद्यश्लोके सूर्यकिरणानां रात्रिध्वनिप्रवेशनमागमसिद्धम् । सूर्यस्य नि- जकिरणेषु भगवञ्चरगारुणिमप्रेप्सया तत्कृतं तेषामग्नौ प्रतापनं परिकल्प्य तेषामुदयकालदृश्यमरुणिमानं च तप्तोद्धृतनाराचानामिवाग्निसंतापनप्रयुक्तार- णिमानुवृत्ति परिकल्प्य सूर्यस्य महतापि प्रयतेन तात्कालिकेष्टावाप्तिरेव जा- यते न सार्वकालिकेष्टावाप्तिरिति दर्शितम् । द्वितीयश्लोके चन्द्रस्य भगवन्मु- खलक्ष्मी लिप्समानस्य सुहृत्स्चेन मिन्नशब्दश्लेषवशात्सूर्य परिकल्प्य तकिर- णस्य कमलमुकुलविकासनं चन्द्रानुप्रवेशनं च सुहृत्पाणेभंगवन्मुखलक्ष्मी- निधानकोशगृहमुद्रामोचनपूर्वकं ततो गृहीतभगवन्मुखलक्ष्मीकस्य तया भ- गवन्मुखलक्ष्म्या चन्द्रप्रसाधनार्थं चन्द्रस्पर्शरूप च परिकल्प्यैतावतापि प्र- यत्नेन पौर्णमास्यामेव भगवन्मुखप्ताम्यरूपेष्टप्राप्तिर्जायते न सार्वकालिकेति दर्शितम् । कचिदिष्टानवातावपि तदवाप्तिभ्रमनिबन्धनविच्छित्तिविशेषः । यथावा- बल्लालक्षोणिपाल त्वदहितनगरे संचरन्ती किराती रत्नान्यादाय कीर्णान्युरुतरखदिराङ्गारशङ्काकुलाङ्गी। .. शिल्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदप्रसक्तैर्मधुकरपटलै—मशङ्कां करोति ॥ .. अन प्रभूताग्निसंपादनोयोगात्तत्संपादनालाभेऽपि तल्लाभो भ्रमोपन्यास- मुखेन निबद्धः ॥ Payatimadikiyleksistamin गृहीता तत्सुषमा तच्छोभा यस्तादृशा ये मित्रकराः सूर्यकिरणाः सुहृत्पाणयश्च तेषामुपक्लट्या लाभेन सदस्य कान्ति लब्ध्वापि क्रमेण हीयमानः क्षीयमाणः सन् अनीत्या उपचितां प्रवृद्धां श्रियमाशु नाशो यस्यास्तां शंसति कथयतीत्यन्वयः॥ अत्रेति ॥ आगमसिद्ध 'तस्माद्दिवाग्निरादित्यं प्रविशति रात्रावादित्यस्तम्' इति श्रुतिसिद्धं प्रवेशनं तत्कृतं सूर्यकृतं तेषां किरणानामग्नौ प्रतापनरूपं परिकल्प्य उत्प्रेक्ष्य । एवं तेषां किरणानामरुणिमानमारक्तत्वं च अरुणिमानुवृत्तिरूपं परिकल्प्य इति दर्शितमित्यन्वयः । एवमग्रेऽपि सुहृत्त्वेन सूर्य परिकल्प्य तत्किरणचन्द्रानु- प्रवेशं च शास्त्रसिद्ध सुहृत्पाणेर्यथोक्काविशेषणविशिष्टस्य चन्द्रस्पर्शरूपं च परिकल्प्य .' इति दर्शितमित्यन्वयः ॥ बल्लालेति ॥ हे एतन्नामक भूपाल, स्वच्छत्रुनगरे संचरन्ती भिल्ली प्रकीर्णानि रत्नान्यादाय उरुतरा महती या खदिराझारस्य शङ्का भ्रान्तिस्तया व्याकुलाङ्गी तदुपरि श्रीखण्डकाष्ठशकलं क्षिप्त्वा मुकुलीभूतनेत्रा फूत्कारं कुर्वती सती श्वासपरिमलेन प्रसकैरागतैमरसमूहै—मशङ्कां करोतीत्य- न्वयः ॥ प्रभूतेति ॥ बहुलेत्यर्थः । एतेषु च सर्वेषूत्पाद्योत्पादकभावरूपसंबन्ध- गर्भेषु प्रभेदेषु कार्यकारणयोः इचिद्विलक्षणगुणशालित्वेनानुरूप्याभावात्वचिच्चे- टोत्पादकत्वेनाभिमतस्य कारणस्येष्टानवाप्यनिष्ठावाप्तिरूपकार्येणानुरूप्याभावा- सामान्यलक्षणसमन्धयो बोध्यः ॥ ९० ॥ इति विषमालंकारप्रकरणम् ॥ ३८॥