पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेषालंकारः ४४] अलंकारचन्द्रिकासहितः । ११५ खावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयपानानुवृत्तिसं- पादनेनोपकारः कृतः। अनोभयोापाराभ्यां स्वस्वोपकारसद्भावेऽपि परस्प- रोपकारोऽपि न निवार्यते ॥९८ ABANSFET RAMANARTH ... विशेषालंकारः ४४ विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः॥ ९९ ॥ यथावा- कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ ___ अन्नाद्ये सूर्यस्य प्रसिद्धाधारस्याभावेऽपि तत्कराणामन्यन्नावस्थितिरुता । द्वितीये त्वम्भसः प्रसिद्धाधारस्य भावेऽपि कमलकुवलययोरन्यन्नावस्थिति- रुक्ता । क्वचिव्यसिद्धाधाररहितानामाधारान्तरनिर्देशं विनवाप्रलयमवस्थिते- वर्णनं दृश्यते । यथावा- . दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । - रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्याः ॥ .. .. :: अन कवीनामभावेऽपि तद्विरामाधारान्तरनिर्देश विनवांप्रलयमवस्थिति- वर्णिता ॥ ९९ ॥ .. विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वयेते। अन्तर्वहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे ॥ १०॥ अत एवेदृशस्थल एव । 'निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभि- नवोद्दण्डपादो भवान्या' इत्यत्राभवन्मतयोगवं दूषणमुदाहृतं मम्मटभट्टैः काव्य- प्रकाशिकायाम् । अन्यत्र तु न खविशेष्यगामिखनियमः । वाश्रितानां विप्राणा- मयं पालकः खाज्ञाकारिणां भृत्यानामयं कल्पवृक्ष इत्यादौ व्यभिचारात् । नचैवं खदाररतीनां विप्राणामहं भक्त इत्यत्र मदीयदाररतानामिति प्रतीतिः स्यादिति वाच्यम् । तात्पर्यस्य नियामकत्वेनापत्त्यभावादिति ॥९८॥ इत्यन्योन्यालंकार:४३ विशेष इति ॥ ख्यात प्रसिद्धम् । तदुक्तम्-'विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः' इति । छिन्दन्ति नाशयन्ति । तत्कराः सूर्यकिरणाः । रानावादित्य- स्वामी प्रवेशश्रवणाद्दीपस्थलम् ॥ कमलमिति ॥ अंत्र कमलखादिना मुखादेर- ध्यवसानं बोध्यम् । कुवलये नेत्रे । एतानि कमलकुवलयानि कनकलतारूपायां कामिन्याम् । सा च कनकलतिका च । निर्देशः कथनम् । आप्रलयं प्रलयपर्य- न्तम् ॥ दिवमिति ॥ दिवमुपयातानामपि येषामनल्पगुणगणयुक्ता गिरः आ- कल्पं कल्पपर्यन्तं जगन्ति भुवनानि रमयन्तीत्वन्वयः॥९९॥ प्रमेदान्तरमाह-